________________
२५८
कुमारपालचरिते तायध समग्ग-पुहविं तायह सग्गं पि भोदु तुह भदं । होदु जयस्सोत्तंसो तुह कित्तीए अपुरवाए ॥ ९६ ॥ सत्तीइ अपुव्वाए होदूण हरि व्व हविय सेसो व्व। होत्ता भरहो व्व तुमं एग-च्छत्तं कुणसु रजं ॥ ९७ ॥ करियावणि-उद्धारं गुरु-भावं गडुय कडुय बलि-बन्धं । . गच्छिय लच्छिमुविन्दो भोदि भवं भोदु इन्द-समो ॥९८॥ अय्यावत्ते कजो। " न वा यो य्यः" [२६६] ॥ . सिरि-णाह जिण-नाध । “थो धः” [२६७] । अपदादावित्येव । थाम ॥ .
९६. हे नरेन्द्र समग्रपृथिवीं त्रायस्व पालय । स्वर्ग दिवमपि त्रायस्व। तथा तव भद्रं भवतु । तव अपूर्वया लोकोत्तरया कीर्त्या कृत्वा जगत , उत्तंसः शिरःशेखरश्च भवतु ॥ इध इह । तायध तायह । " इह-हचोर्हस्य '' [२६८] ॥
भोदु होदु । " भुवो भः" [२६९] । ... ९७. अपूर्वया शक्तया पराक्रमेण कृत्वा हरिः इन्द्रः कृष्णो वा स इव भूत्वा संपद्य शेषः अनन्तः स इव भूत्वा भरतः आद्यचक्री स इव भूत्वा च त्वम् एकच्छत्रं राज्यम् आधिपत्यं कुरु ॥
अपुरवाए अपुव्वाए । “ पूर्वस्य पुरवः " [२७०] ॥ होदूण । हविय । होत्ता । "क्त्व इय-दूणौ” [२७१] ॥
९८. अवनेः उद्धारं द्विषद्विपद्भयो रक्षणं कृत्वा गुरुभावं गत्वा बलिनां बन्धं कृत्वा लक्ष्मी गत्वा आसाद्य च भवान् उपेन्द्रो भवति । यतः सोपि कृतप्रलयकालसमुद्रमग्नपृथिव्युद्धारः बलिबन्धने संजातमहाप्रमाणः विहितबलिदानवबन्धः समासादितलक्ष्मीकश्चेति । तथा भवतु भवान् इन्द्रसमः । परमैश्वर्येण अधुना शक्रकल्पः संजायताम् इति भावः ॥ १ BD °दादित्ये'. २ C इधं. ३ D °वं गौरवं ग'.