________________
२५२
कुमारपालचरिते जेण वहिजइ हिअए सुअ-देवी तेण रुब्भए कम्मं । रुन्धिजइ कलि-ललिअं लिहिजए अमयमाकण्ठं ।। ८१॥ डज्झइ भवो डहिजइ पावं ताणं खु बज्झइ न धम्मो। बन्धिजइ जेहि थुई पवयण-देवीइ भावेणं ॥ ८२॥ .. भावाउ जाणुरुज्झइ अणुरुन्धिजइ थवांउ पूआए। उवरुज्झइ उवरुन्धिजइ तवओ सा जयउ वाणी ॥ ८३॥ .
८१. येन हृदये श्रुतदेवी उह्यते धार्यते तेन पुरुषेण कर्म रुध्यते .. निवार्यते । कलिललितं कलिकालविजृम्भितं रुध्यते । अमृतम् आ-. कण्ठं लिह्यते आस्वाद्यते । निर्वृतेन भूयत इत्यर्थः ॥
दुब्भउ दुहिजए । वुब्भउ वहिजइ । रुब्भए रुन्धिजइ । लिम्मत लिहिजए । “ भो दुइ-लिह-वह-रुधामुच्चातः " [ २४५ ] ॥
८२. यैर्भावेन प्रवचनदेव्याः स्तुतिर्बध्यते प्रथ्यते । खु इति निश्चितम् । तैः पुरुषैर्भवो दह्यते भस्मसात् क्रियते । विनाश्यत इति यावत् । पापं दह्यते तथा धर्मो न बध्यते कर्मान्तरेण नावष्टभ्यते ॥ ताणं इति तृतीयायाः षष्ठी ॥
डज्झइ डहिजइ । “दहो ज्झः" [ २४६ ] ॥ बज्झइ बन्धिजइ । “बन्धो न्धः " [ २४७ ] ॥
८३. सा वाणी वाग्देवता जयतु सर्वोत्कर्षेण वर्तताम् । या भावाद् अन्तरङ्गबहुमानतः अनुरुध्यते प्रसाद्यते । सुप्रसन्ना क्रियत इति यावत् । स्तवाद् अनुरुध्यते । पूजाया अर्चनाद् उपरुध्यते अनुकूल्यते । तपसो द्वादशविधतपश्चरणाद् उपरुध्यते ॥
१ C थवाअ. २B om. this example. ३ Bom. this example, ४ B बंधो धः; C बंधो वः.