SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ [ है ० ८.४,२२८] सप्तमः सर्गः । २४५ कुप धावन्ति खादिमं च खादन्ति तेहि वि समं जो । धावइ खाइ अ तं पि हु बोहन्ते झामि आयरिए ॥ ६२ ॥ कम्माहँ वोसिरन्ता अतुट्टिरेणं तवेण सक्कन्ता । अफुडिअ - अचलिअ - महिमा आयरिआ दिन्तु ते बोहिं ॥ ६३ ॥ 4 अभिमुखं च धावति सत्वरम् आयाति । तेभ्यः सर्वसिद्धेभ्यो नमः ॥ जेसु इति " द्वितीया तृतीययोः सप्तमी ” [ ३.१३५ ] इति सप्तमी ॥ रोविराणं । नवन्ताण । रुद-नमोर्वः [ २२६ ] ॥ उव्वेवो । ८८ ८८ उद्विजः ” [ २२७ ] ६२. ये कुपथे अमार्गे । अनीताविति यावत् । धावन्ति । तथा खाद्यते यत् तत् खादं तस्य भावः खादत्वं न विद्यते खादत्वं यस्य तत् तथा अखाद्य वस्तु खादन्ति । तैरपि समं यो धावति कुपथे गच्छति खादति -अभक्षणीयं भक्षयति च । हु इति निश्चितम् । तमपि तादृशमपि प्राणिनं स्वयम् अधर्मम् अधर्मविप्रलब्धं च । अस्मादृशम् इत्यर्थः । बोधयतो धर्मदेशनयां सन्मार्गे प्रवर्तयत आचार्यान् ध्यायामि संस्मरामि ॥ 'धाइ । खाइ। “खाद-धावोर्लुक्” [२२८ ] ॥ बहुलाधिकाराद् वर्तमानाभविष्यद्विध्याद्येकवचन एव । तेनेह न । धावन्ति । अखादिमं । खादन्ति ॥ क्वचिन्न । धावर ॥ ४. ६३. कर्माणि व्युत्सृजन्तः आत्मनो दूरीकुर्वन्तः । ननु अनादिकालालीनकर्मणां कथं व्युत्सर्ग इत्याह । अत्रोटिनाँ अच्छिदुरेण । संपूर्णेनेति यावत् । तपसा शक्नुवन्तः सामर्थ्यं बिभ्रतः । अस्फुटितः अन्यौजसा अखण्डितः अत एव अचलितः अकम्पितः । स्थिर इत्यर्थः । महिमा माहात्म्यं येषां ते तथा । ते सर्वप्रसिद्धा आचार्या बोधिं जिनधर्मावाप्तिं ददतु प्रयच्छन्तु ॥ १ B drops अखादिमं च खादन्ति २ CD स्वयमधर्मविप्र ३ BC अत्रोटिता.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy