SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १८६ कुमारपालचरिते आहोडिअ-धणुह-गुणे सर-ताडिअ-तिहुअणम्मि रइ-नाहे । दूर-विहोडिअ-सज्झस-असईणं दइअ-मेलवणो ॥ १८ ॥ नीहार-मीसिआहि व छुह-रस-वीसालिआहि व पहाहि । तिमिरोद्धूलिअ-भुवणं गुण्ठन्तो भामिआहि नहे ॥ १९ ॥ कामि-मण-तालिअण्टिर-वम्मह-आणं जगे तमाडन्तो । नासविअ-भओ अहिसारिआण हारविअ-लजाण ॥ २० ॥ स्रवन् । रतौ संभोगे व्यापृतानि यानि मिथुनानि तेषां हृदयेभ्यः .. विरोचितगुह्यः बहिःकृतान्तरङ्गाभिप्रायः । सर्वत्र रिचिर्बहिनिःसारणमात्रे । . ततश्च णिग्यपि विरेचनार्थ एव भवति । विरेचनं बहिनिःसारणम् ॥ १८. ताडितः आस्फालितः धनुर्गुणः कोदण्डप्रत्यञ्चा येन स तथा तस्मिन् । शरैः मदनोन्मादनमोहनतापनशोषणाख्यबाणैस्ताडितं निधुवनोन्मादादिभावजननाद् उपद्रुतं त्रिभुवनं त्रैलोक्यं येन स तथा तस्मिन् रतिनाथे सति दूरादेव ताडितम् अपास्तं साध्वसं पतिपित्रादिभयं यासां तास्तथा ताश्च ता असत्यश्च कुलटास्तासां दयिता नटविटादिका वल्लभास्तेषां मिश्रणः संपर्कजनकः । त्रिभुवनास्खलिताज्ञे मन्मथे गृहीतधनुषि पित्रादीन् अवगणय्य स्ववल्लभान् अभिसमुरित्यर्थः । राजभये पित्रादिभयं न किंचिद् इत्युक्तिलेशः ॥ १९. नीहारमिश्रिताभिरिव श्वैत्यशैत्याभ्यां प्रालेययुक्ताभिरिव सुधारसमिश्रिताभिरिव अमन्दानन्दजननात् पीयूषद्रवसंपृक्ताभिरिव नभसि भ्रमिताभिः व्योमाङ्गणे प्रसारिताभिः प्रभाभिः कृत्वा तिमिरोद्धूलितभुवन ध्वान्तावगुण्डितविश्वम् उठूलयन् व्याप्नुवन् ॥ ___२०. कामिमनो भ्रमयति चालयति इत्येवंशीलः कामिमनोभ्रमयिता स चासौ मन्मथश्च तस्य आज्ञा जगति भ्रमयन् विस्तारयन् । १° BCD °धनुषगु.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy