________________
[है. ८.२.११९]. तृतीयः सर्गः।
तट्ठातस्थालि-कुलो भयस्सई अट्ठमो व्व पहिआण । तुह जुग्गो पुन्नामो रूवेण बहस्सइ-घरिल्ले ॥६८ ॥ अमइल-तणु परिगुम्फिअ-पोप्फलि-मउरेण भसल-मलिणेण । अवह-कुचोवह हत्थोभय-चलेणे तुज्झ भूसेमि ॥ ६९ ॥ सिप्पि-पिहु-नयण-छुत्तोत्तंसे आढत्त-संझ-रायमिमं ।
उचिणसु भमर-छिकं महु-पाइकं जवा-कुसुमं ॥ ७० ॥ च अस्या अनया वा रम्भाया रम्भया वा पूर्वासामपि पूर्व कृतापीडानामपि नायिकानाम् अपूर्वम् असंजातपूर्वम् । आश्चर्यकारीति भावः। आपीडम् अवतंसम् हे त्रस्तहरिणाक्षि चकितकुरङ्गनेत्रे ॥
६८. त्रस्तात्रस्तमिव चञ्चलत्वान्मन्यते चकिताचकितमिव अलिकुलं यत्र स तथा बृहस्पतिरिव अष्टमः पीडाकारित्वात् पथिकानाम् । यदुक्तम् . द्वादशदशमचतुर्थे जन्मनि षष्ठाष्टमे तृतीये च ।
व्याधिं विदेशगमनं मित्रविरोधं च सुरगुरुः कुरुते ॥ १ ॥ पुन्नागस्तव योग्यः । विकस्वरपुष्पभास्वरत्वात् कुसुमावचयोचित इत्यर्थः । हे रूपेण कृत्वा बृहस्पतिगृहिणि ॥
६९. भसलैर्मलिनेन मकरन्दपानासक्तैः षट्पदैः श्यामलेन । परिगुम्फितो यः पूगफल्या मुकुरो बालपुष्पं तेन कृत्वा हे अमलिनतनु विशदमूर्ते तव उभयकुचोभयहस्तोभयचरणान् भूषयामि अलंकरोमि ।।
. ७०. शुक्तिवत् पृथुनी विस्तीर्णे ये नयने ताभ्यां छुप्तौ स्पृष्टौ उत्तंसौ कर्णपूरौ यया तस्याः संबोधनम् । हे शुक्तिपृथुनयनच्छुप्तोत्तंसे आरब्धः अरुणत्वात् प्रकृतः संध्याराग इव येन तत् तथा भ्रमरैः सौरभ्यात् लुप्तं मधोर्वसन्तस्य पदातिं कामिमोहनादितत्कर्मकारित्वेन भृत्यम् इदं पुरोवर्ति जपाकुसुमम् उच्चिनु ।। १ BD° चरणे. २ BO पूर्वकृता.