________________
कुमारपालचरिते दुहिआण दुक्ख-हरणम्मि दक्खिणो काम-दाहिण-करो व्व। उम-तिथिआण तूहं फुड-फुल्लो आसि महुअ-तरू ॥२८॥ पायाहओ असोओ कोहलि-सामाहिँ पम्हलच्छीहिं। ..
कोहण्डी-कुसुमो कम्हारज-किसलो अ हवइ म्ह ॥२९॥ २३नव-रवि-रस्सि-पसूणो सर-उम्ह-करो अलक्खि बम्ह-तरू ।
रोलम्ब-सह-रव-कय-सागय-पण्हो महु-सिरीए ॥३०॥
२८. दुःखितानाम् अननुकूलकलत्रत्वेन पीडितानां दुःखहरणे दक्षिणः तदभीप्सितार्थसाधकत्वेन हितः । अत उत्प्रेक्ष्यते कामस्य दक्षिणकर इव । तत्करसाध्यकार्यस्य तेनापि निष्पादनात् । उमातीथिकानां गौरीभक्तानां तीर्थम् । तत्र गौरी वसतीति श्रुतेः । तेषां भक्तिस्थानम् स्फुटफुल्लो विकसितकुसुमः मधूकतरुरासीत् ॥ उमेति " दीर्घह्रस्वौ मिथो वृत्तौ” [१.४] इति ह्रस्वः ॥ .
दुहिआण दुक्ख । दक्खिणो दाहिण । तिथिआण तूहं । “ दु:खदक्षिणतीर्थे वी" [७२] इति हो वा ॥
२९. कूष्माण्डीवत् श्यामाः श्यामवर्णास्ताभिः पक्ष्मलाक्षीभिः अशोकः पादेन आहतः । ततः कूष्माण्डीकुसुमवत् कुसुमानि यस्य स तथा । कश्मीरज कुङ्कुमं तद्वत् किशलयानि च यस्य स तथाभूतश्च भवति स्म । स्वदोहदसंप्राप्तितः शाङ्कलः संवृत्त इति भावः ॥
कोहलि कोहण्डी। “कूष्माण्ड्यां मोलस्तु ण्डो वा" [७३] इति ष्मा इत्यस्य हः । ण्ड इत्यस्य तु वा लोऽपि ॥
३०. नवरविरश्मिवद् रक्तानि प्रसूनानि यस्य । स्मरस्य उष्मकरः दर्शनकारिलोकस्य स्मरघरजनकः । मधुश्रियाः वसन्तलक्ष्म्या रोलम्बा भ्रमरास्तेषां सूक्ष्माः श्लक्ष्णा वा ये रवा गुञ्जितानि तैः कृतस्वागतप्रश्न इव ब्रह्मतरुः पलाशः अलक्षि मन्यते स्म ॥
१ BCD हे for वा.