SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरिते . तेण जिणम्मि दुवालस-रवि-तेए मुहल-घण्ट-थोर-रवं । णङ्गलि-लङ्गलिभायर-सरिसेण पलोट्टिआ कलसा ॥ ६४ ॥ णलिणाहलत्तण-अपुण-भवत्थं निवेण करुणाए । ललि-लाहला वि हु सित्ता जिण-ण्हवण-सलिलेण ॥६५॥ सैन्यपालैः प्रयुज्यन्ते स्म । प्रयोक्तव्यापारे णिगि क्तः । ततः पर्याणिता . ग्राहितपल्ययना अपर्याणिताश्च हया यत्रेति । एवम् आयातैः अपरराजैः करवीरैः करवीरकुसुमैः अर्चितकलशः । हरिद्रावद् गौरः स राजा किल दृष्टः । सविस्मयोत्कण्ठं विलोकितः । किलेति प्रसिद्धौ ॥ पल्लाणिअ अपडायाणिअ । “पर्याणे डा वा' [२५२] इति रस्य डा वा ॥ कणवीर । " करवीरे णः” [ २५३ ] इति आद्यरस्य णः ॥ ६४. लाङ्गलिलाङ्गलिभ्रातृसदृशेन बलभद्राच्युततुल्येन तेन राज्ञा मुखराः प्रतिरवैर्वाचाला या घण्टास्तासां स्थूलो रवो यत्र इत्येवं जिने जिनबिम्बे द्वादशरवितेजसि पर्यस्ताः कर्पूरकुङ्कुमादिसुरभिद्रव्यक्षोदामिश्रजलमोचनाय अवाश्चः कृताः कलशाः सुवर्णमणिमृन्मयादिकुम्भाः ॥ हलिद्द। मुहल। " हरिद्रादौ लः" [२५४] इति रस्य लः । आर्षे दुवालस। थोर । " स्थूले लो रः” [२५५] इति लस्य रः ॥ - ६५. लालिलाहलत्वयोः तिर्यक्त्वम्लेच्छविशेषत्वयोः अपुनर्भवार्थ पुनरप्रादुर्भावाय नृपेण करुणया । आस्ताम् अन्ये । लाङ्गलिलाहला अपि । हु इति निश्चितम् । सिक्ताः आर्द्राः कृता जिनस्नपनसलिलेन ॥ णङ्गलि लङ्गलि । गङ्गलि । णाहल लाहला । "लाहललाङ्गललाङ्गले वादेर्णः" [ २५६ ] । एषु आदेर्लस्य णो वा । १. १D सुवर्णदुर्वर्णमणि'.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy