SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरिते ' पहु तुम्हकेर-अह-खाय-संजमे सोवओग-साहूण । न समो अह जाओ तव-किसङ्ग-लट्ठी वि हु कुदिट्ठी ॥५९॥ करणिजाकरणीअं पेआपिजं च जे न वि मुणान्ति । ते दोस-दुइजा वि हु गुण-वीआ हुन्ति तइँ दिढे ॥६० ॥ पिता च तेन अधरितः न्यकृतः । स सर्वोत्कृष्ट इत्यर्थः । हे भसलवत् श्यामल तव पदपङ्कजयोः येन भ्रमरायितं चश्चरीकवद् आचरितम् । यस्त्वां प्रणत इत्यर्थः ॥ वम्मह । “ मन्मथे वः” [ २४२ ] इति मस्य वः ॥ पिआहिवन्नू अहिमन्नु । " वाभिमन्यौ " [२४३ ] इति मो वो वा ।। भसल भमराइअं । " भ्रमरे सो वा” [ २४४.] इति मस्य सो वा ॥ ___५९. हे प्रभो पार्श्व त्वदीये भवत्संबन्धिनि यथाख्यातसंयमे पञ्चमचारित्रे सोपयोगसाधूनां सावधानयतीनाम् । हु इति निश्चितम् । न समो न सदृक्षः । कः।यथाजातः शीतातपाद्यपद्रवसहनाय प्रावरणरहितः तपसा कृशाङ्गयष्टिः दुर्बलगात्रोपि कुदृष्टिर्जमदग्न्यादिः ॥ जेण । “ आदेर्यो जः [२४५] इति यस्य जः॥ आदेरिति किम् । भमराइअं। बाहुलकात् सोपसर्गस्य अनादेरपि । संजमे ॥ क्वचिन्न । सोवओग ॥ आर्षे लोपोपि । अह-खाय । अह-जाओ ॥ तुम्हकेर । युष्मद्यर्थपरे तः " [२४६ ] इति यस्य तः ॥ लट्ठी । “ यष्टयां लः ” [ २४७ ] इति यस्य लः॥ ६०. हे देव करणीयाकरणीयं पेयापेयं च ये नैव जानन्ति ते दोषद्वितीया अपि गुणद्वितीयाः सगुणास्त्वयि दृष्टे सति भवन्ति । संबोधनपदम् अत्र ज्ञेयम् ॥ ... १ BC सोवओ. २0 ° चरित्रे. ३ C शांततापायु. ..
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy