________________
कुमारपालचरिते सो फणस-फालिहद्दय-दीहर-भुअ-फलिह-जोडिअ-णडालो । अफरुस-गिराइ फालिअ-मोहो इअ जिण-थुइमकासि ॥५३॥ फलिहा-जलं बहुत्तम्बुजेहि जह जह वणं च नीमहि । जग-सिरि-नीवावेडय संहइ मही तह तुह पएहिं ॥ ५४॥ तुह कय-कुसुमामेला पण?-पारद्धि-पमुह-पाव-मला। .
मुत्ताहल-विमला इह हवन्ति रेभ व्व मुद्धन्ना ॥ ५५ ॥ ।' तथा निम्बवद् गीश्च येषाम् । कलिरेव कुत्सितकर्मणा नापितः पापमेव नापितः तयोः उपकरणभूतत्वेन ज्ञापकत्वेन च आदर्शाः अतं एव. धर्मरिपवोपि तस्मिंस्तथाविधनृपे दृष्टे सति धर्मोन्मुखा भूतो जाताः । . अपिर्विस्मये ॥
लिम्बा निम्ब । पहाविअ नाविअ । “निम्बनापिते लण्हं वा” [२३०] :, इति नस्य लण्हो वा । “पो वः ” [३३१] इति पस्य च वः । प्राय इत्येव । रिउणो॥
५३. पनसपारिभद्राविव यौ दीघौं भुजपरिघौ ताभ्यां योजितं ललाटं भालस्थलं येन । ललाटयोजितकर इत्यर्थः । पाटितमोहो विनाशितविपरीतावबोधः सन् अपरुषगिरा मृदुस्वरेण · इति वक्ष्यमाणरीत्या स राजा जिनस्तुतिम् अकार्षीत् ॥ .
५४. स्तुतिमेव गाथाष्टकेनाह । परिखा खातिका तस्या जलं यथा प्रभूताम्बुजैः वनं च यथा नीपैः राजति । जगतां श्रियो नीपानां कदम्बकुसुमानाम् आपीड शोभाकृत्त्वेन [हे] शेखर तथा तव पादैर्मही राजति।।
फणस । फालिहद्दय । फलिह । अफरुस । फालिअ । फलिहा । “पाटि" इत्यादिना [२३२] ण्यन्ते पटिधातौ परुषादिषु च पस्य फः ॥
वहुत्तं । " प्रभूते वः ” [२३३] इति पस्य वः ।।
५५. तव कृतकुसुमापीडाः, प्रनष्टपापर्द्धिप्रमुखपापमलाः अत एव मुक्ताफलवद् विमला विगतकर्ममला इह अस्मिन् जन्मनि भवन्ति .१० तह सहइ मही तुह पएहिं.