________________
( ४६७ )
तूष्णीमा-तूष्णीं भूत्वेति-तूष्णीं शब्दो न केवलं मौनार्थकोऽपि तु मौनवत्यपि प्रयुज्यते, तण च पूर्वममौनो-मौनाभाववान् मौनः-मौनवान्, भूत्वेति तात्पर्यमिहोन्नेयमिति ॥८७॥
आनुलोम्येऽन्वचा ॥५॥४८ अन्वचाऽव्ययेन योगे तुल्यकत कार्थात् भुव आनुलोभ्ये गम्ये धातोः सम्बन्धे क्त्वाणमौ स्याताम् । अन्वग भूत्वा, अन्वग्भावमास्ते । आनुम्य इति किम् । अन्वग् भूत्वा विजयते । पश्चाद्भूत्वेत्यर्थः ॥८॥ आनुलोम्ये०-आनुलोम्यमनुकूलता परिचित्ताराधनम् । अन्वगभूत्वेत्यादि. अनुक्कलो भूत्वा तिष्ठतीत्यर्थः। अनुपूर्वादञ्चते हुलकादौणादिके विपि उपान्त्यनकारलोपे स्वरादिगणपाठादव्ययत्वे 'अन्वच्' इति, तदनुकरणात् तृतीयकवचने 'अन्वचा' ,इति निर्देशः कृतः, एवं 'तिर्यचा०' ।५।४।८५॥ इत्यत्रापि तिर्यचा' इति, न तु अच्च्०' ।२।१।१०४। इति चादेशे 'तिरश्चा' इति, चादेशे दीधं च 'अनूचा' इति भवति ॥८॥ .
इच्छार्थे कर्मणः सप्तमी ।।४।। इच्छार्थे धातावुपपदे तुल्यकर्तृकार्थात्कर्मभूताद्धातोः सप्तमी स्यात् । भुजीयेति इच्छति । इच्छार्थ इति किम् । भोजको याति । कर्मण इति किम् ? इच्छन् करोति ॥८६॥ .. इच्छार्थे०–'भुजंग्भुज् पालनाभ्यवहारयोः' अभ्यवहारो भोजनम्, भुनजोऽत्राणे' ।३।३।३७। इत्यात्मनेपदे सप्तम्यां तृतीयपुरुषैकवचने ईय-प्रत्ययेभुञ्जीय, 'इषत् इच्छायाम्' अतो वर्तमानातिवि 'गमि०' ।४।२।१०६। इत्यन्त्यस्य छादेशे-इच्छति ॥८६॥