________________
लुमन्तीत्यर्थः, पूर्व विक्षिपन्तः, पश्चात् लुनन्तीत्यर्थः । 'किरो लबने' ।४।४।६३। इति लवनविषये सडादिः । उपकीर्य यातीति-विक्षिप्य गच्छतीत्यर्थः, अत्र लवनार्थाभावान्न ‘णम्' किन्तु त्क्वैव, एवं लवनार्थाभावाच्च सडपि न भवतीति भावः ।।७२॥
दंशेरतृतीयया ॥५॥४॥७३॥ तृतीयान्तेन योगे तुल्यकर्तृकार्थादुपपूर्वाशेर्धातोः सम्बन्धे णम्वा स्यात् । मूलकेनोपदशं, मूलकेनोपदंश्य भुङ्क्ते ॥७३॥ वंशे०-। मूलकेनोपदंशमित्यादि-मूलका-धुपदंशेः कर्मापि प्रधानस्य भृजे: करणमिति ततीयैव भवति, प्रधानक्रियोपयुक्त हि. कारके गुणक्रिया न स्वानुरूपां विभक्तिमुत्पादयितुमलमप्रधानत्वादेव, यथेष्यते ग्रामो गन्तुम् पक्त्वा भु-ज्यते ओदन इति । अत्र 'तृतीयोक्तवा' ।३।१।५०। इति वा तत्पुरुषः ॥७३॥ हिंसादिकाप्यात् ।।४।७४। हिसार्थाद्धातोर्धात्वन्तरेणैकाप्यात्तुल्यकर्तृ कार्यात्त तीयान्तेन योगे । णम् वा स्यात् । दण्डेनोपघातं, दण्डोपघातम् । दण्डेनोपहत्य च गाः सादयति । एकाप्यादिति किम् । दण्डेनोपहत्य चौरं गोपालको गाः खेटयति ॥७४॥ वण्डेनोपघातम् इत्यादि-'तृतीयोक्त बा ।३।१।५०। सूत्रात् विकल्पेन समासः, दण्डेनोपहननमिति वाक्यम् । 'सादयति' अत्र षद धातुः णिग्॥७४॥ उपपीडरुधकर्षस्तत्सप्तम्या ।।४।७५॥ तथा तृतीयया युक्ता सप्तमी सत्सप्तमी, तदन्तेन योगे उपपूभ्य . एस्पस्तुल्यकर्तृकार्थेभ्यो धातोः संबन्धे णम्वा स्यात् । पार्वाभ्यासुपपीडं पाोपपोडं शेते । पार्श्वयोरुपपीडं पावोपपीडं शेते ।