SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ । ४४८ ) पूर्ववाक्यार्थानुवादकत्वमावेण व्यवधायकत्वाभावान्न दोषः, व्यवधानं हि परेण भवति, इतिशब्दश्च पूर्वोक्तार्थमेवानुवदतीति तस्य न व्यवधायकत्वमिति भावः । अत्रादिपदेन-लुनीहि लुनीहीत्येवेमौ लुनीतः लुनीहीत्येवेमे लुनन्ति इत्याद्य दाहरणानि ज्ञेयानि । एवमुत्तरत्राप्यादिपदेनोदाहरणानि ज्ञेयानि । लुनीहि लुनीहीत्येवायं लुनाति, छिनत्ति, लूयते वेति धातोः सम्बन्धे मा भूदिति-'यथाविधि' इत्यस्य 'यत एव धातोः' इत्याद्यर्थं दर्शयताचार्येण सूचितम्-धातुभेदे कारकभेदे नेदं सूत्रं प्रवतंत इति, .. प्रकृतप्रयोगे च 'छिनत्ति' इत्यस्यानुप्रयोगे धातभेदः, 'लयते' इत्यस्यानुप्रयोगे च कारकभेदः, धातुसाम्येऽपि 'लुनानि' इत्यस्य कर्तरि प्रयोगात् लयते' इत्यस्य कर्मणि प्रयोगात्, तत्रास्य प्रवृत्तिवारणाय यथाविधिग्रहणमावश्यकमिति भावः । लुनीहि लनीहीत्यादौ च भृशाभीक्ष्ण्ये द्विवचनम् ।। ननु च भृगाभीक्ष्ण्ययोर्यङपि विधीयते न तु तत्र द्विवचनम्, इह तु . द्विवचनमित्यत्र को हेतु: ? उच्यते--यङ् स्वार्थिकत्वात् प्रकृत्यर्थोपाधीः भृशाभीक्ष्ण्ये समर्थोऽवद्योतयितुमिति यदभिव्यक्तये द्विर्वचनं नापेक्षते, हिस्वादयस्तु कर्त कर्मभावार्थत्वेनास्वार्थिकत्वादसमर्थाः ,प्रकृत्यर्थोपाधी भृशाभीक्ष्ण्येऽवद्योतयितुमिति तदवद्योतनाय द्विवचनमपेक्षन्ते इति ॥४२॥ प्रचावे नवा सामान्यार्थस्य ।।४।४३॥ धात्वर्थानां समुच्चये गम्ये सामान्यार्थस्य धातोः सम्बन्धे सति धातोः परौ हिस्वी तध्वमौ च तद्य ष्मदि वा स्याताम् । बीहीन वप लुनीहि पुनीहि इत्येवं यतते यत्यते वा । पक्ष । बोहोन वपति लुनाति पुनाति इत्येवं यतते यत्यते वा सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवमधीते पठ्यते वा । पक्ष। सूत्रमधीते नियुक्तिमधीते भाष्यमधीते इत्येवमधीते पठ्यते वा। प्रोहीन वपत लुनीत पुनीतेत्येवं यतध्वे, । व्रीहीन वप लुनीहि पुनीहीत्येवं चेष्टध्वे । पक्ष । व्रीहीन वपथ लुनीथ पुनीथेत्येवं. यतध्वे । सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवमधीब्वे । सूत्रमधीष्व, नियुक्तिमधीष्व, भाष्यमधोष्वेत्येवमधाध्वे । पक्ष।
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy