________________
( ४४६ )
उच्यते = सोऽस्य पुत्त्रो भविता यो विश्वं द्रष्टेति न च भविष्यत्कालो भूतकालेन संबध्यमानो भूतकालतां प्रतिपद्यते, न ह्यत्रायमर्थः प्रतीयते - सोऽस्य पुत्रो भूतो यो विश्वं दृष्टवानिति, विशेषणं हि गुणत्वात् विशेष्यकालमनुरुध्यते, विशेष्यस्य तु मुख्यत्वान्नानुरुध्यते । भावि कृत्यमासीदिति - भविष्यतीति=भावि, 'भुवो वा' । उणा० ६२२ । इति णित् इन्, 'वत्स्यति गम्यादि:' | ५|३|१ | इति च भविष्यत्त्वम्, 'असक् 'भुवि' अतो ह्यस्तनीदिवि - आसीदिति । सर्वत्र त्याद्यन्तवाच्योऽर्थो विशेष्यः, स्याद्यन्तवाच्यस्तु विशेषणम् । अत्रापि विशेषणं विशेष्यकालतां प्रतिपद्यते । यतोऽत्रायमर्थः प्रतीयते - तत् कृत्यमासीत् यद् भूतमिति । बहुवचनात् अधात्वधिकार - विहिता अपि प्रत्ययास्तद्धिता धातुसम्बन्धे सति कालभेदे साधवो भवन्त्यत आह- गोमानासीत् - इति गावो विद्यन्तेस्येति वर्तमानकालि कसत्त्वविवक्षायां 'तदस्या०' | ७|२| १ | इत्यनेन वर्तमानकालमस्तीत्युपादाय विहितो मतुः 'आसीत्' इति भूतकालान्वयिनि कर्तरि न स्यादतोऽनेन तस्य साधुत्वमाख्यायते ॥। ४१॥
भृशाऽभीक्ष्णे हि स्वौ यथाविधि त-ध्वमौ च तद्य मदि |५|४|४२ |
भृशाभीक्ष्ण्ये सर्वकालेऽर्थे वर्त्तमानाद्धातोः सर्वविभक्तिवचनविषये हिस्वt स्याताम् । यथाविधि धातोः संबन्धे यत एव धातोर्यस्मिनेव करके हिस्वा तस्यैव धातोस्तत्कारक विशिष्टस्यैव सम्बन्ध अनुप्रयोगे सति तथा पच्चम्या एव तध्वमौ तयोः सम्बन्धिनि बहुत्वविशिष्ट युष्मद्यर्थे हिस्वौ च स्यातां यथाविधि धातोः सम्बन्धे । लुनीहि लुनीहीत्येवायं लुनातीत्यादि । अधीष्वाध ष्वेत्येवायमधीते इत्यादि । लुनीत लुनीतेत्येवं यूयं लुनीथ । लुनीहि लनीहीत्येवं यूयं लुनीथ । अधीध्वमधीध्वमित्येव यूयमधीध्वे । अधीष्वाधीष्वेत्येवं यूयमधीध्वे । यथाविधोति किम् । लुनीहि . लुनीहीत्येवायं लुनाति, छिनत्ति, लूयते वेति धातोः संबन्धमा भूत् ॥४२॥