________________
(९२)
किम् ? पयस्सु ॥५७॥
न रुः अरुः तस्य, सुपि, र:प्रथया । नियमार्थत्वेन कार्यान्तरबाधनार्थमिदं सूत्रम् तेन गीर्षु धूर्षु इत्यत्र 'र: पदान्ते०' ।१।३।५३। इति विसर्गे प्राप्तेऽनेन रकार एव भवति । अत्र 'अरोरिति रुवर्जनं 'निरनुबन्धग्रहणे सामान्येन' इति न्याय सूचयति यतः 'रः पदान्ते ॥१॥३॥५३॥ इत्यत्र रशब्दात् उभयस्य प्राप्तौ सत्यामेव प्रतिषेधः सार्थकः स्यात् । ननु पयस्सु' इत्यत्र ‘सो रुः'. . ।२।१७२। इति कृते 'नाग्यन्तस्था०' ।।३।११। सूत्रेण रकारस्यान्तस्थत्वात्तरर: षकार: कथं न भवतीति चेत्सत्यम् 'र: पदान्ते ।।३।५३। इत्यस्य नित्यत्वात् 'परान्नित्यम्' इति न्यायेन बाघनात् ॥५॥
वाहर्पत्यादयः।१।३।५८ ।
अहर्पत्यादयो यथायोगमकृतविसर्गाः कृतोत्वाभावाश्च वा स्युः । अहर्पतिः, अहः पतिः । गीपतिः, गी:पति । प्रचेता राजन्, प्रचेतो राजन् ॥५॥
वार्हपत्येति निपातनात् पदान्ताधिकारी निवृत्तस्तेनोत्तरसूत्रे पदाताधिकारो न याति । तेन रषोरमित्यादि सिद्धम् अहर्पतिरादियेषां ते अह. पत्यादयः । अह नां पतिः अहर्पति: 'रो लुप्यरि' ।२।११७५। सूत्रेण नस्य र: । गिरां पतिः गीपतिः, उभयत्र विसर्गप्राप्तौ वा निपातितः । प्रकृष्ट चेता यस्य
राज्ञ:=प्रचेता ‘रो रे लुग्दीर्घ० ॥१॥३॥४१॥ इत्यत्रोत्वाभावो निपातितः । विशेषज्ञापनाय सम्बोधने उदाहृतम् सम्बोधनादन्यत्र समास एवोदाहार्य: समासभिन्नस्थले तु 'अभ्वादेरत्वस:०' ॥१॥४.९०। सूत्रेण दीर्घत्वे विशेषाभावात बहुवचनमाकृतिगणार्थम् । आकृतिः-सादृश्यं तत्प्रधानो गण: समुदायः आकृ. तिगणः, यद्वा आकृतिशब्द: जातिचाची सा च समस्तव्यक्ति व्याप्ता । य: प्रचुरशब्दविषयं व्याप्नोति स गण: जातिसादृश्यादाकृतिगण: ॥१८॥
शिट्याद्यस्य दितीयो वा। १।३ । ५९ ।