________________
(९३)
प्रथमस्य शिटि परे द्वितीयो वा स्यात् । ख्षीरम्, क्षीरम् । अपसगः,
अप्सराः ॥५९॥
शिटि, आद्यस्य, द्वितीय: वा । क्षीरमित्यत्र वर्गादिभूतस्य ककारस्य शिट्परत्वाद् वा खकार : एव अफ्सरा इत्यत्रापि । अत्राद्यत्वं वर्गपत्रचकस्य प्रथमाक्षरापेक्षम्, तदपेक्ष च द्वितीयत्वम् ।। ५९ ।।
1
तवर्गस्य श्ववर्गष्टवगभ्यिां योगे चटवर्गौ
। १ । ३ । ६० ।
तवर्गस्य श्चवर्गाभ्यां षटवर्गाभ्यां च योगे यथासङ्ख्यं चवर्गटवगौ स्थाताम् । तच्शेते, भवाशेते, तच्चारु, तज्जकारेण, पेष्टा, पूड.:, तट्टकारः, तण्णकारेण, ईट्टे ॥ ६० ॥
"
तवर्गस्य, श् च चवर्गश्च श्चवर्गम्, व् च टवर्गश्च ष्टवर्गम् । श्च वर्गं च ष्टवर्ग च श्चष्टवर्गे, ताभ्यां योगे चवर्गश्च टवर्गश्च चटवर्गी | समुदायद्व्यापेक्षया यथासङ् ख्यार्थ तृतीयाद्विवचनम् । योगग्रहणं विना सहार्थतता यायाम 'अवर्ण० | १२|६| सूत्रवत् श्चवर्गादेरपि स्थानित्वाशङका स्वात् इति स्थानित्वाशङ्कानिरासार्थ पूर्वापरभावानियमार्थं च योगग्रहणम् । पञ्चम्यांनिर्दिष्टे परस्य ' | ७|४|१०४ | सूत्रात् परस्यैव तवर्गस्य स्थानित्व स्यात् न तु पूर्वस्य तवर्गस्येति योगग्रहणम् । योगोऽत्र पूर्वतः परतो वा तत्र परत ' इत्यस्योदाहरणं तत् शेते, भाव शेते, तच्चारु, तज्जकारेण तट्ट्कार:, तण्णकारेण, पूर्वत इत्यस्योदः हरणं पेष्टा, पूष्णः, ईट्टे । ननु तवर्गेण वर्गसमुदायस्याभिधानात् एकैकस्य स्थानित्वाभावात् तत् शेते इत्यादिषु तकारस्य चकारो न स्यात् अत्रोत्तरम् -समुदायैकदेशस्यापि समुदायात्मकत्वात् तकाररूपतवर्गस्यानेन चकारो भवति यथा ग्रामे वसति, गृहे वसति देवदत्तो न ग्रामं गृहं वा व्याप्य वसति परन्तु तदेकदेश एव वसति स एवैकदेशो ग्रामं गृहं चोच्यते तद्वदत्रापि । ननु तच्शेते इत्यत्र 'चजः कगम्' | २|११८६ | इति कत्वं कथं न भवतीति चेत्सत्यम् 'उभयाश्रितत्वेन बहिरङ्गश्चकारः अन्तरङ्ग ककारेऽसिद्ध इति । भवान् शेते इत्यत्र नस्य ञः, तत् चारु अत्र तस्य चः, तद्जकारेण