________________
(८६)
उदः स्थास्तम्भः सः।१।३।४४ । उदः परयोः स्थास्तम्भोः सस्य लुक स्वात, उत्थाता, उत्तम्भिता । ॥४४॥
॥ उदः पञ्चमी 'पञ्चम्या निर्दिष्टे परस्य ७४।१०४॥ इति परिभाषालम्यमर्थमाह उद: परयोरिति । ष्ठां गतिनिवृत्ती, ष: स: 'निमित्ताभावे नैमित्तिकस्याप्यभावः' इति न्यायेन स्था, उत्तिष्ठतीति तच, उद स्थाता, सलुक्, स्तम्भू इति सौत्री धातुः उत्तभ्नातीति तृचि उत्तम्भिता । उद इति स्थासम्भाविशेषणस्यैव ग्रहणम, तेन ऊर्व स्थानमस्येति उत्स्थान:, अत्र न सलुक, उद: स्थानस्य विणेषणत्वात न तु तिष्ठतेः । नन उदस्थादित्यत्र सकारलोपापत्ति:, न चाडागमेन व्यवधानमस्तीति वाच्य, तस्य स्थाधात्वङ्ग. स्वेन 'स्वाङ्गमव्यवधायी'- ति न्यायेनात्यवधायकत्वादिति चेन्न उदस्थात्, उदस्तम्भ इत्यनयो: सिद्ध्यर्थम् आवृत्य उद इति पदं स्थास्तम्भः, सकारस्य च योज्यम् । ननु उदस्थादित्यादी अडागमायूर्व भविष्यतीति चेन्नान्वित्यधिकारात्, अडागमे च सति 'पञ्चम्या निर्दिष्टे परस्य' १७:४११०४। तच्चा'नन्तरस्यैवेति व्यवहितस्य न भवति ।।४४।।
स
'तदा से स्वरे पादार्था।। तदः परस्य सेः स्वरे परे लुक् स्यात् । सा चेत्पादपूरणी स्यात् । संष दाशरथी रामः संघ राजा युधिष्ठिरः । पादाति किम् ? स एष भरतो राजा ॥४५॥
॥ तदः पञ्चमी, पादाय इयं पादार्था । लुचो विशेषणम् । 'उऽर्थों वाच्यवत् परलिङ्गप्रकरणम् श्लोक १ इति । तदित्यनेन तदादेशस्य सस्य ग्रहणम्, अन्यथा व्यञ्जनात्परस्य से: 'दीघंङयाब० ॥१॥४॥४५॥ इत्यनेन लकुसिख एव । 'पञ्चम्या निर्दिष्टे परस्य [७।४।१०४। इति वर्तते । 'प्रकृतिवदनकरणम्' इति न्यायस्यानित्यत्वात् तद इत्यत्र एतन्यायस्याप्रवृत्तिः, अन्यथा अनुकरणभूतस्य तदः प्रकृतिवस्वाङ्गीकारे तस्मादिति भवेत् । सैष दाशरथी