________________
. (८५)
'ढस्तड्ढे'।१।३।४२। तन्निमित्त हे परे ढस्यानु लुक् स्यात्, दीर्घश्चादिदुतः । मादिः, लोढम्, गूढम् । तड्ढ इति किम् ? मधुलिड ढोकते ॥४२॥
. ॥ः षष्ठी, तन्निमित्तो ढस्तड्ढः, तस्मिन् 'तवर्गस्य०' ।१।३।६० इति दस्य ड: । इदं सूत्रं पदान्ते 'धुटस्तृतीयः ।२।१७६। इत्यस्य, अपदान्ते तु 'तृतीयस्तृतीयचतुर्थे ।२।३।४८ इत्यस्य बाधकम् ततोऽन्वित्यधिकारः एतयोः सूत्रयोविषयं मुक्त्वा ज्ञातव्यः, अत एव मधुलिड ढोकते इत्यत्र पूर्व तृतीयत्वाभावे सति न दत्यङ्गविकलता । मह पूजायाम् महनं माढि: 'स्त्रियां क्ति' १५॥३३९१। 'हो धुट्पदान्ते' ।२।१।१२। इति हस्य ढः, 'अधश्चतुर्थात्त०' ।२।१। ७९। इति न स्तस्य धः, तवर्गस्य०।१।३।६०। इति धस्य ढः, ततश्चानेन सूत्रेण ढलोपो दीर्घश्च । लिहीक आस्वादने, गुहौग सवरणे' लेहनं लीढम् गृहनं गूढम् 'क्लीबे क्तः ।५।३।१२३। सूत्रेण क्तः । मधु लेढीति मधुलिट. 'क्विप्' ।५।१।१४८। सूत्रात् क्विप्, तते: सिः । अत्रोत्तरढकारस्य पूर्वढनिमित्तत्वाभावाल्लुग्न । अन्विंत्य धिकारात लेढा इत्यादी गुणे कृते ढलापोऽन्यथा प्रथममनेन ढलोपे दीर्घ च लोढा इत्याद्यानिष्टं स्यात् ॥४॥
सहिवरोच्चावर्णस्य ।१।३।४३। सहिवह्योर्डस्य तड्ढे परे ऽ नु लुक् स्यात्, ओच्चावर्णस्य । सोढा, वोढा, उपयोढाम्॥४३॥
॥ सहिश्च वहिश्च तस्य, 'पहि मर्षणे' षह 'षः सोऽष्ट्य० ।२।३। ९८। इति सह, वहीं प्रापणे वह । सहते इति सोढा । वहतीति वढा । तृच्, 'हो धुट्पदान्ते' ।२।१२८२। इ'त हस्य ढः, 'अधश्चतुर्था० ।२।१७९। इति तस्य ध:, 'तवर्गस्य० १॥३॥६०॥ इति धस्य ढः, तत एतत्सूत्र प्रवर्तते । उदवोढामिति वह, उत्पूर्व मद्यतनीताम, सिजद्यतन्याम्' ।३।४।५३। इति सिच 'व्यजनानामनिटि ।४।३।४५॥ इति वृद्धिः, वाह , धुडह्रस्वाल्लुग०।४।३।७०। इति सिचो लुक् 'हो धुट्पदान्ते' ।२।१२८२। अधश्चतुर्थात्त० ।२।१७९। 'तवर्गस्य०' ।१।३।६०। ततो प्रकृतसूत्रेण ओत्वं ढलोपश्च ॥४३॥