________________
. (७७)
॥ आङ च माङ, च न आङमाङ अनाङमाङ तस्मात् कन्यायाश्छत्रं कन्याच्छत्रम् छस्य द्वित्वे कृते 'अघ षे प्रथमाऽशिट: ।१।३।५। सूत्रेण एकछस्य चकार: । आ ईषत् छाया आच्छाया अत्र ईषदर्थ आङ शब्दः अत्र 'स्वरेभ्यः' ।१।३।३०। इति नित्यं द्वः रूपे। माच्छिदत् 'छिदव्यी द्वे धोकरणे 'माङ यद्यतनी ।५।४।३९। इति वचनाद्वर्तमानेऽप्यद्यतनीदि, ऋदिच्छि व।३।४। ६५॥ इति अङ्ग ‘स्रेभ्यः (१।३।३०। इति प्रवर्तते । आङ साहूचर्येणाव्ययस्य माडो ग्रहणात् प्रमाच्छात्र, प्रमाछात्र इत्यत्र विकल्प एव । अत्र हि माधातु न त्वव्ययः । पदान्ते इति दीर्घस्य विशेषण न छस्य असंभवात्, पदान्ते हितस्य विकारेण भाव्यम् । शब्दप्राट् 'अंनुना०।४।१।१०८। इति ननु पर्युदासातु आङ् माङ् वर्जनादेव दीर्घात् इति लब्धे किमर्थं दीर्घादित्यनेने चेत्सत्यम् आङ, माङ् अव्ययमिति तदन्यस्याप्यव्ययात् दीर्घादित्यपि प्रसङ्गः स्यादिति ॥२८॥
प्लुताद्वा । १।३ । २९ । पदान्तस्थाद् दीर्घात्प्लुतात् परस्य छस्य २ रुपे वा स्याताम् । मागच्छ भो ! इन्द्रभूते ३ च्छत्रमानय, पक्षे छत्रमानय ॥ २९ ॥ . दीर्घस्तु द्विमात्रः, प्लुतस्तु त्रिमात्रः इति सामानाधिकरण्यासंभवात् मना: क्रोशन्तीत्यादिवत् स्थानोपचारात् दीर्घस्थात्प्लुतादित्यर्थो बोध्य: अथवा दीर्घोऽस्यास्तीति स्थानित्वेनेति अभ्रादिभ्यः । ७/१४६॥ इत्यप्रत्यये दीर्घस्थानात्प्लुतादित्यर्थो बोध्यः । भो इन्द्रभूते, दूरादामन्यस्य ०५७।४।९९। इति प्लुत:, छत्रम्-अनेन विकल्पेन छस्य द्वित्वम् । भूतपूर्व दीर्घमाश्रित्य पूर्वसूत्रेणैव सिद्धाविद्र पृथक्सूत्रकरणं ह्रस्वदीर्घापदिष्टं कार्य न प्लुतस्य' इति न्यायमापनार्थम् । एवमेव हे राज ३ निह, इत्यादौ परत्वान्तित्यत्वाच्च 'दूरादा' ।।४।९९। इति जकारोत्तरवर्त्यकारस्य प्लुतत्वे कृते 'भूतपूर्वकस्तद्वदुपचारः' इति न्यायेन ह्रस्वोपचारावास्य'हस्कान्ङ ना०।१।३।२७। सूत्राद्वित्वमुक्तन्यायात् । तथा हेलो ३ त्रात इत्यत्र अदीर्घाद् ॥१॥३॥३२॥ सूत्रे दीर्घवर्जनेऽप्युक्तन्यायेन प्लवावर्जनाद् दा द्वित्वम् । परे तु 'ह्रस्वदीर्घापदिष्टं कार्य न प्लुतस्य इति न्यायोऽनाश्रयणीयः तेषामाभिप्रायस्त्वित्थम् दीर्घो द्विमात्रः, प्लुतस्त्रिमात्र:, ह्रस्व