________________
( २२५ )
अदृश्यं परोक्षम्,अधिकमधिरूढं तदर्थयोरुत्तरपदयोर्बहुव्रीही सहस्य सः स्यात् । साग्नि कपोतः । सद्रोणा खारी ॥१४५॥ दृशधातुश्चाक्ष षजानार्थः । द्रष्टुमयोग्यम् - अदृश्यम्-चाक्षुषज्ञानाविषयमित्यर्थात्परोक्षत्वं पर्यव-स्यति,अक्ष्णःपरमक्षिविषयातीतं वस्तु परोक्षमिति कथ्यते तथा बाना झिादमिन्द्रियसामान्यपरमिति इन्द्रियविषयातीति एव वस्तुनिपरोक्षत्वव्यवहारःइति शब्दादिविषयेषु श्रोत्रादीन्द्रियग्राह्य षु न परोक्ष त्वम्। एवंचेन्द्रियाविषयेऽनुमानादिविगम्ये उत्तरपदार्थे सतीति पर्यवसितोऽर्थः अग्निना सह वर्तते इति साग्नि: कपोतः, अत्र कपोतेऽग्निरदश्य एव प्रतीयमानत्वात्, तथा चोत्तरपदभतस्याग्नेरदृश्यत्वेन तद्वाचित्वमुत्तरपदस्यास्तीति भावः । द्रोणेन चतुराढ कपरिच्छिन्नपरिमाणेन सहिता सद्रोणा खारी । द्रोणेनाधिका खारीत्यर्थः अत्र खार्या द्रोणेन सह विद्यमानत्वं न प्रतीयते अन्यार्थ एव प्रकृतसूत्रस्यापि प्रवृत्तिरित्यदृश्यार्थपरेऽधिकार्थपरे चोत्तरपदे 'सहस्य सौऽन्यार्थे ।३।२।१४३। इत्यनेनैव सिद्ध वचनम् नित्यार्थ ।।१४।।
अकालेऽव्ययीभावे ।३।२।१४६।
अकालवाचिन्युत्तरपदे सहस्याव्ययोभावे स. स्यात् । सब्रह्म साधूनाम् । अकालइति किम् ? सहपूर्वाणं शेते । अव्ययीभावइति किम् ? सहयुध्वा ॥१४॥
ब्रह्मणः सम्पत्-सब्रह्म साधनाम् । सम्पत्त्यर्थे द्योत्ये सहेत्यव्ययेन सह ब्रह्म+टा' इत्यस्य 'विभक्ति-समीप०' ।३।१।३। इत्यव्ययीभावः, अनेन सहस्य सादेशः, ब्रह्मपदेन निरवच्छिन्नं चैतन्यमुच्यते, साधवः समधिगयतत्त्वसाक्षात्कारा ब्रह्म सम्पद्यन्त इति तेषां ब्रह्मणः सम्पत्तिः प्रसिध्यति । सहपूर्वाह णशेते सकलं पूर्वाह णमभिव्याप्य शेते इत्यर्थः,अत्र पूर्वाह ण+टासहेत्यस्य साकल्येऽव्ययीभावसमासेऽनेन सहस्य सादेशो न भवति अत्रापि साकल्य एवाव्ययीभावः अभिव्याप्तिस्तु द्वितीयार्थः । सहयुध्वेति-सह युद्धवानित्यर्थे क्वनिप् ङस्युक्तसमासः ।।१४६।।