________________
( २२४ )
,
दिशि दृष्टः शब्दः दिक्शब्दः, दिग्वाचकत्वेन प्रसिद्धः इति भावः । अन व्याख्यानाद् दिग्विशेषवाचका एव पूर्वादयः शब्दा दिक्शब्दत्वेन गृह्यन्ते, दिवसामान्य वाचका: 'दिक्, आशा, ककुप् इत्यादयः शब्दाः ऐन्द्रादयश्च शब्द न गृह्यन्ते ' व्याख्यातो विशेषप्रतिपत्तिः' इति न्यायात् । दक्षिण"स्या-दिशः दक्षिणस्य वा देशस्य तीरं दक्षिणतारम्, दक्षिणतीरम् । 'सर्वा'दयोsस्याद' | ३ |२| ६१ | इति पुंवद्भावः । 'दिशः' इत्येतावपि सिद्ध शब्दग्रहणात् तस्य शब्दस्य दिशि दृष्टत्वमेवावश्यकं न तु संप्रति दिगर्थवृत्तित्वमपि, तथा च दिग्वाचकस्य शब्दस्य संप्रति देशवाचकत्वेऽपि दिक्शब्दत्वेन ग्रहणं भवति ॥ १४२ ॥
सहस्य सोऽन्यार्थे |३|२।१४३ |
उत्तरपदे परे बहुव्रीहौ सहस्य सो वा स्यात् । सपुत्रः । सहपुत्रः । अन्यार्थ किम् ? सहजः ॥ १४३ ॥
सह पुत्रेण-सपुत्र आगतः, सहपुत्र आगतः 'सहार्थे' | २|२|४५ । इति तुल्ययोगेऽर्थे गम्यमाने तृतीया 'सहस्तेन' | ३|१|२४ | इति सूत्रेण बहुव्रीहिसमासः । सहजात:- सहजः 'क्वचित्' | ५ | १|१७१ | इति डः ।। १४३ ।।
नाम्नि | ३ |२| १४४ |
उत्तरपदे परे बहुव्रीहो सहस्य सः संज्ञायां स्यात् । साश्वत्थं वनम् । अन्यार्थइत्येव ? सहदेवः कुरुः ॥ १४४॥
1
सहाश्वत्थेन वर्तते साश्वत्थम् एवं नाम वनम् सह दीव्यतीति सहदेवः कुरुः । दीव्यतेरच् ॥ १४४॥।
1
अदृश्याधिके | ३ |२| १४५ ।