________________
( २२२ )
अलपे ।३।२।१३६॥ - ईषदर्थस्य कोरुत्तरपदे का स्यात् । कामधुरम् । काच्छम् ॥१३६॥ .
अल्पशब्दस्य न शब्दस्वरूपपरत्वमपि त्वर्थपरत्वं व्याख्यानात् । यद्यपि रवं रूपं शब्दस्य शब्दसंज्ञा' इति न्यायेन शब्दस्य स्वरूपमेव ग्राह्य तथापि न्यायानामस्थिरत्वेन अल्पशल्दस्यहार्थपरत्वम् । मधु-माधु-. . यंमस्यास्तीति मधुरम्,ईषन्मधुरं कामधुरम्, स्वरादावपि परत्वादीषदर्थे कादेश एव भवति-ईषदच्छम् स्वच्छं-काच्छमिति ।।१३६॥
-
काकवौ वोष्णे ।३।२।१३७॥ उष्णे उत्तरपदे कोः काकवौ वा स्याताम् । कोष्णम् । कवोणम् । पक्षे यथाप्राप्तमिति । तत्पुरुष, कदुष्णम् । बहुव्रीही, कूष्णो देश: ॥१३७॥
ई। कुत्सितं वोष्णं कोष्णं कवोष्णम्, ईत्यकुत्सितं वोष्णमत्र कोष्णः, कवोष्णः । बहुव्रीहौ तु कदादेशो न भवति कूष्णो देशः ॥१३७॥
कृत्ये ऽवश्यमोलुक् ।३।२।१३८। कृत्यान्ते उत्तरपदे ऽवश्यमोलुक् स्यात् । अवश्यकार्यम् । कृत्य इति किम् ? अवश्यं लावकः ॥१३॥ 'ते कृत्याः' ।५।४।४७। इति सूत्रेण ध्यणादयः कृत्संज्ञकत्वेनोक्ताः । कतु योग्यं कार्यम् ‘ऋवर्ण-व्यञ्जनांद् ध्यण' ।५।१।१७। इति घ्यण् । अवश्य कार्यम्-अवश्यकार्यम्-मयूरव्यंसकादित्वात्समासः । लनातीति लावक: कर्तरि ‘णकतृचौ' ।५।१।४८। इति णकः ।।१३८॥
समस्ततहिते वा ।३।२।१३६।