________________
( २२१ )
कुत्सितास्त्रयः, के वा त्रयः, कत्त्रयः, कुत्सितास्त्रय एषां के वा त्रयः एषां कत्त्रयः ।।१३३।।
.
काऽक्षपथोः ।३।२।१३४॥ अनयोरुत्तरपदयोः कोः का स्यात् । काक्षः । कापथम् ॥१३४॥ अयं भावः-उत्तरपदत्वदशायामुभयोविशेषस्य कस्यचिदनुपलभ्यमानत्वेन कस्य ग्रहणं कस्य नेति विनिगमकस्यानुपलब्धे अक्षशब्दस्याकारान्तस्य कृतसमासान्तस्य च ग्रहणम् । कुत्सितोऽक्षः-काक्ष:-पाशकादि । इन्द्रिये त्वक्षशब्दस्य क्लीबत्वं स्यात्-कुत्सितमक्षमिन्द्रियं काक्षम् । कुत्सितोऽक्षःधूः-स्थितश्चकाकर्षकः काष्ठविशेषो यस्य सः-काक्षो रथः, कुत्सितमक्षि अक्षं बाऽस्य काक्षः 'सक्थ्यक्ष्णः स्वाङ्गे'।७।३।१२६॥ इति ट: समासान्तः 'अवर्णवर्णस्य' ।।४।६८। इतीवर्णस्य लोपेऽक्षशब्दो निष्पद्यते तस्मिन्परे कोः कादेशः । कुत्सितः पन्थाः-कापर्थम् । अस्य तत्पुरुषसमासत्वेनोत्तरपदलिङ्गत्वस्यौचित्येऽपि लिङ्गानुशासने ‘पथः संख्याऽव्ययोत्तर०' इति पाठात् कापथमिति क्लीबत्वमुक्तम् । अनीषदर्थार्थं वचनम् ईषदर्थे तुं “अल्पे' ।३।२।१३६। इत्येव सिद्धम् ।।१३५।।
पुरुष वा ।३।२।१३५॥ पुरुषे उत्तरपदे कोः का वा स्यात् । कापुरुषः । कुपुरुषः ॥१३५॥ कुत्सितः पुरुषः-कापुरुषः, कुपुरुषः, कुत्सितः पुरुषः, अस्मिन्-कापुरुषो ग्रामः, कुपुरुषो ग्रामः । अनीषदर्थे विकल्पोऽयम्, ईषदर्थे तु परत्त्वादुत्तरेण नित्यमेव । अनीषदर्थे पुरुषे परेऽस्य चारितार्थ्यम्, ईषदर्थे पुरुषशब्दादन्यत्र परस्य चारितार्थ्यमितीषदर्थे पुरुषशब्दे पर उभयोः प्राप्तौ सत्यां स्पर्द्ध जाते ‘स्पर्धे' ।७।४।१६६। इति परिभाषासूत्रबलात्परस्यैव प्रवृत्तिरिति 'भावः ।।१३५।।