________________
( २१९ )
अप्राणिन्यर्थे नगो वा निपात्यते । नगः, अगः, गिरिः । अप्राणिनीति किम् ? अगोऽयं शीतेन ॥१२७॥ न गच्छतीति-नगः गिरिः, अगः-गिरिः । नत्र पूर्वाद् गमेः 'नाम्नो गमः०' ।५।१।१३१॥ इति ड: । अन्त्यस्वरादिलोपे डस्युक्त-समासे सति 'नत्रत्' ।३।२।१२५॥ इति नित्यमादेशे प्राप्ते विकल्पोऽयम् ।।१२७।।
नखादयः ।३।२।१२८। . एते अकृताकाराद्यादेशा निपात्यन्ते । नखः । नासत्यः ॥१२८॥ खन्यते इति खं छिद्रम्, तदस्य नास्ति स नखः, बहुव्रीहिसमासे 'नात्' ।३।२।१२५॥ इति प्राप्तोऽकारादेशो निपातनान्निवर्त्तते इति तत्सिद्धिः । सत्सु साधुः सत्यः, न सत्यः असत्यः । न असत्यो विद्यते यत्र स नासत्यः । नासत्यशब्दस्यैव गणे पाठात् असत्य इत्य-त्राकारादेशो भवत्येव । बहुवचनमाकृतिगणार्थम् ।।१२६॥
- अन् स्वरे ।३।२।१२६॥
स्वरादावुत्तरपदे ननोऽन् स्यात् । अनन्तो जिनः ॥१२६॥ न विद्यतेऽन्तोऽस्येति-अनन्तो जिनः । ननु नत्रः स्थानेऽनादेशे सति 'नाम्नो नोऽनह्नः' ।।१।९१। इति नलोपः नकारस्य ह्रस्वात्परत्वेन स्वरे परे तस्य 'ह्रस्वान्ङणनो द्वे' ।१।३।२७। इति द्वित्वं च प्राप्नोति तत्कथं न भवतीति चेत्सत्यम् अन् इति स्वरूपनिर्देशात् नलोपो द्वित्वं च न भवति । अयं भावः-नलोपे सति अकारस्यैव शिष्टत्वे तद्विधानवैयर्थ्यात्, सर्वत्र स्वरादावुत्तरपद एवानादेश-विधानेन द्वित्वस्य नित्यप्राप्ततया द्विनकारनिर्देशस्यैव प्रक्रियालाघवार्थं विधेयत्वं स्यादित्येकनकारान्तादेशस्वरूपनिर्देशसामर्थ्यादिह नकारस्य लोपो द्वित्वं च न भवतीति ।।१२६॥