________________
( २१८ )
अकारादौ क्विबन्तेऽञ्चावुत्तरपदे तिरसस्तिरिः स्यात् । तिर्य। अतीति किम् ? तिरश्वः ॥१२४॥ तिरोऽञ्चति-तिर्यड । तिरश्च इति–'अच्च् प्रा दीर्घश्च' ।२।१।१०४। इति 'अच्' इत्यस्य स्थाने चादेशादकाराद्रित्वाभावः । दीर्घस्तु स्वराभावान्न भवति ।।१३४॥
नजत् ।३।१।१२५॥ उत्तरपदे परे नञ् अः स्यात् । अचौरः पन्थाः । उत्तरपद इत्येव ? न भुङ्क्ते ॥१२५॥
न विद्यते चौरो यत्र स अचौरः पन्थाः । न भुङ्क्तो इति-नाम नाम्नेत्युक्त. स्त्याद्यन्तेन सह समासा-भावान्नास्तीह भुङ्क्त' इत्यस्योत्तरपदत्वमिति न भवत्यकारः ।।१२५।।
त्यादौ क्षेपे ।३।२।१२६॥ त्याद्यन्ते पदे परे निन्दायां गम्यमानायां नञ् अः स्यात् । अपचसि त्वं जाल्म। क्षेपइति किम् ? न पचति चैत्रः ॥१२६॥ क्वचिदनुत्तरपदेऽपि नत्रोऽकारादेशस्येष्टत्वेन तदनुशासनार्थं सूत्रमिदम्, । अपचसि त्वंजाल्मइति-कुत्सितं पचसीत्यर्थः, समासाभावेऽपि प्रयोगस्वाभाध्यादस्याकारस्य क्रियातः पूर्वमेव प्रयोगः । अत एव त्यादिपरत्वं सिध्यति 'अ-मा-नो-नाः प्रतिषेधे, इत्यकारेण प्रतिषेधार्थीयेनैव सिद्धो क्षेपे नत्रः श्रवणनिवारणार्थम्, अनुत्तरपदेऽ पि क्वचिन्ननः स्थानेऽकारस्य प्रयोगार्थ च वचनम् ॥१२६॥
नगोऽप्राणिनि वा ३।२।१२७॥