________________
( द )
सर्पिषो नाथितमिति नाथुङ् उपतापैश्वर्याऽऽशीः षु 'आशिषि नाथः | ३ | ३|३६ । इत्यात्मनेपदविषये 'नाथ' | ३ |२| १० | इति यत्नात् पाक्षिके कर्मभावे निवृत्ते तन्निबन्धनद्वितीयानिवृत्तौ निषिद्ध कर्मणि षष्ठ्येव भवतीति शेष विज्ञायत इति यत्नजे शेषे षष्ठीति समासो न भवति । अत्र भावे क्लीबेतनानिमिति सपि भूयादित्याशासनमिति तदर्थः । गवां कृष्णा सम्पपन्नक्षीरेति-अत्नापादाने 'सप्तमी चाविभागे निर्धारणे | २२|१०| इति षष्ठी ||७६ ||
कृति | ३|१|७७॥
कर्म्मणिकृतः २०२८३ | कर्त्तरि । २।२८६ । इति या कृन्निमित्ता षष्ठी तदन्तं नाम नाम्ना समासस्तत्पुरुषः स्यात् । सर्पिर्ज्ञानं गणधरोक्तिः ॥ ७७ ॥
सिद्धसेन कृतिरिति - सिद्धसेनस्य सिद्धसेनदिवाकाराभिधस्य आचार्यस्य सम्मतितर्कादिग्रन्थ रचना। करोतेर्भावेक्तिः कर्तरि च षष्ठी । अनेन समासः गणधरोक्तिरिति - गणधरस्य भगवतो गौतमादेः, उक्ति:- उपदेशादि वचनम् । वचं भाषणे अतो भावे क्तिः वृति च कत्वे उक्तिः । अत्रापि कर्तरि षष्ठी । एवं धर्मानुस्मरणम् तत्त्वानुचिन्तनमित्यादि कर्मषष्ठयन्तस्योदाहरणम् ज्ञेयम् ॥७७॥
याजकादिभिः | ३|१|७८ ।
षष्ठयन्तं याजकाद्यः समासस्तत्पुरुषः स्यात् । ब्राह्मणयाजकः । गुरुपूजकः ॥७८॥
ब्राह्मणानां याजकः-ब्राह्मणयाजकः । गुरूणां पूजकः । बहुवचनमाकृतिगणाथंम् । 'कर्म' - जा तृचा च' | ३|१|८३ | इति प्रतिषेधापवादो योगः ॥ ७८ ॥
पत्तिस्थौ गणकेन | ३|१|७६ ।