________________
( ३८ )
सौरीयः । आगस्तीयः ॥८६॥ सूर्यस्य भार्या सूरी 'धवाद्यो०' ।२।४।५६इति ङीः । अगस्त्यस्येयम् 'तस्येदम्' ।६।३।१६। इत्यणि अण। ०।२।४।२०। इति ङ्याम् आगस्ती। सौरीयाऽऽगस्तीयशब्दयोः प्रथमं देवतार्थेऽण् पश्चादिदमर्थे 'दोरीयः' ।६।३।३२। इतीयः, 'अवर्णेवर्णस्य' ।७।४।६८। इत्यकारलोपोऽनेन यलोपः 'एक-देशविकृतमनन्यवत्' इति न्यायात् सौर्या-गस्त्ययोरपि सूर्याऽगस्त्य- . शब्दाभ्यां ग्रहणम् ॥८॥
तिष्यपुष्ययोर्भाणि ।२।४।६०।
भं नक्षगं तस्याणि परे ऽनयोर्यो लुक स्यात् । तैषी रात्रिः, पौषमहः । भाणीति किम् । तैष्यश्चरुः ॥६॥ तिष्येण चन्द्रयुक्त न युक्ता-तैषीरात्रिः । पुष्येणचन्द्रयुक्त न युक्तमहः पौषमहः, अत्र चन्द्रयुक्तात्काले०' ।६।२।६। इत्यण् 'अवर्णेवर्णस्य' ।७।४।६८। इत्यकारलोपेऽनेन यलोपः । तैष्यश्चरुरिति-तिष्यो देवताऽस्य तैष्यश्चरः, देवतार्थेऽण् ॥१०॥
आपत्यस्य क्यव्योः ।२।४।६१॥ व्यञ्जनात्परम्यापत्यस्य यः क्ये च्वौ च परे लुक् स्यात् । गार्गीयति । गार्गायते । गार्गीभूतः । आपत्यस्येति किम् । साङ्खाश्योयति । व्यञ्जनादित्येव । कारिकेयीयति ॥१॥ पतनं पतः ततोऽन्यत् अपतः, तत्र साधु अपत्यम् अपत्ये भवः आपत्यः तस्य स्थानसम्बन्धे षष्ठी। गार्गीयतीति-गाय॑मिच्छतीति गार्गीयति । 'क्यनि' ।४।३।११२। इतीकारः 'येन नाव्यवधानं.' इति न्यायादीकारादिव्यवधानेपि भवति । गाय॑ इवाचरति गार्गायते । अगार्यो गार्ग्य:भूतः गार्गीभूतः ।'कृभ्वस्तिभ्यां०' ७॥१२६ इति च्वि: 'ईश्चा०' ।४।३।११२। साङ्काश्यीयतीति-संकाशेन निर्वृत्तं 'सुपन्थ्यादेर्व्यः' ।६।२।८४। इति ध्यः