________________
( ३७ )
यो परे ऽस्य लुक् । स्यात् । मद्रचरी ॥८६॥ मद्रेषु देशेषु चरतीति 'चरेष्टः" ।५।१।१३८। 'अण ये०' ।२।४।२०। इति टित्वात् ङीः, अनेनाकारलोपः ।।८६॥
-
मत्स्यस्य यः ।२।४।८७।
मत्स्यस्य यो ङघा लुक् स्यात् । मत्सी ॥७॥ ननु ङ्यामिति 'सप्तम्याः पूर्वस्य' ७४।१०५॥ तच्चानन्तरस्येति परे 'स्वरस्य प्राग्विधौ ।७।४।११०। इत्यकारलुचः स्थानिवद्भावाद् व्यवधानाद्यकारलोपो प्राप्नोतीति चेत्सत्यं वचनादेकेन वर्णेन व्यवधानमाश्रीयत इति ॥७॥
व्यञ्जनात्तद्धितस्य ।२।४।८८।
व्यञ्जनात्परस्य तद्धितस्य यो ङमा लुक् स्यात् । मनुषी। व्यञ्जनादिति किम् । कारिकेयी । तद्धितस्येति किम् ? वैश्यी ॥८॥ मनुषीति-मनोरपत्यं स्त्री मनुषी 'मनोर्याणी षश्चान्तः' ।६।१।६४। इति ये षागमे च गौरादित्वाद् ड्याम् 'अस्य ङयां लुक' ।।४।८६: इत्यकार'लोपेऽनेन यलोपः । कारिकेयीति-कारिकाया अपत्यं स्त्री 'व्याप्त्यु०' ।६।१७०। इत्येयणि 'अणत्रेये.'।२।४।२०। इति कीः । वैश्यीति–वैश्यस्य भार्या वैश्यी 'धवाद्योगाद०' ।२।४।५९। इति की अत्र यकारो न तद्धितसम्बन्धी अपि त्वौणादिकः ॥१८॥
सूर्यागस्त्ययोरीये च ।२।४।। अनयोर्यों यामीये च प्रत्यये लुक् स्यात् । सूरी। आगस्ती।