________________
(
३५ )
•अनयोरन्तस्य यथासंख्यं क्षत्रियायुक्त्योः स्त्रियां ष्यः स्यात् ।
मोज्या क्षत्रिया। सूत्या युवतिः। अन्या तु भोजा । सूता ॥१॥ भोज्या-भोजवंशजा क्षत्रियेत्यर्थः यदा भोजशब्देन क्षत्रिया क्षत्रियवंशजा स्त्री प्रतिपाद्यते तदा 'जाते..' ।।४।५४। इति ङीप्रत्ययस्यापवादोऽ-नेन ध्यादेशः । सूत्या प्राप्तयौवना मानुषीत्यर्थः । यदा सूतशब्देन प्राप्तयौवना स्त्री प्रतिपाद्यते तदाऽनेन ध्यादेशोऽ न्यत्र त्वादेव ॥१॥
दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठे-विद्धर्वा ।।४।। एषामिनन्तानां स्त्रियामन्तस्य ष्यो वा स्यात् । देवयज्ञया । देवयज्ञी । शौचिवृक्ष्या । शौचिवृक्षी । सात्यमुगया । सात्यमुनी। काण्ठेविद्धया । काण्ठेविद्धी ॥२॥ इनन्तमात्र निर्देशात् पौत्रादौ प्राप्ये प्रथमापत्ये त्वप्राप्ते विभाषा । देवः एव याः पूजनीयः यस्य स देवयज्ञः । शुचिर्वृक्षो यस्य स शुचिवृक्षः। सत्यमुग्रं यस्य स, अत एव निर्देशान्मोन्तः । कण्ठे विध्यते स्म, तदा 'तत्पुरुषे कृति' ।३।२।२०। इत्यलुप् यदा तु कण्ठे विद्धमनेन तदा 'अमुर्द्ध मस्तकात्' ।३।२।२२। इत्यलुप् । देवयज्ञस्य शुद्धिवृक्षस्य सत्यमुग्रस्य कण्ठेविद्धस्य वाऽ पत्यमिति 'अत इत्र'।६।१३१। इतीत्र ॥२॥
'ध्या पुत्रपत्योः केवलयोरीच तत्पुरुषे ।२।४।३।. मुख्यऽऽबन्तस्य ष्यः पुत्रपत्योः केवलयोः परयोस्तत्पुरुष समासे ईच् स्यात् । कारीषगन्धीपुनः । कारीषगन्धीपतिः। येति किम् । इभ्यापुत्रः । केवलयोरिति किम् । कारीषगाध्यापुत्राकुलम् ॥८३॥ प्या इत्यत्र 'दीर्घड्याव्' ।२।४।४५। इति, सूत्रत्वाद्वा सेलु। पुत्रपत्योरित्यत्र राजदन्तादित्वातु सौत्रनिर्देशाद्वा लघ्व०।३।१।१६०। इति पति-शब्दस्य न