________________
( ३३१ )
^किम् । हरिणत नाम कश्चित् । ९५ ।
नरीनृत्यते - 'ऋमतां री : ' । ४ । १।५५ । इति रीरागमः । नरिनतति'रिच लुपि ।४ । १५६ । इति ग्रािगमः । अत्र 'रषृवर्णान्नो०' | २|३|६३| इनि प्राप्त प्रतिषेधः । हरिणतीति- हरिरिव नृत्यतीति 'कतुणिन्' ||१ | १५३ । इति णिन् ।। ९५॥
क्ष
[नादीनाम् ||३|९६ ।
एषां नो ण न स्यात् । क्षुम्नाति । आचार्यानी ।९६|
·
क्षुम्नाति आचार्यानीति - अत्र रषृवर्णा ० ' | २|३|६३ | इति प्राप्त प्रतिषेधः । आचार्यस्य भार्या आचार्यानी 'मातुलाचार्यो० | २|४| ६३ । इति ङीः आनन्तश्च । बहुवचनमाकृतिगणार्थम् । क्षुम्ना इति निर्देशेन क्ष ुभ्ना इति रूपग्रहणं न तु यङलुब्निवृस्थथम् धातुग्रहणे तु क्षोभणमित्यत्रापि स्यात् । ननु एवं तहि क्षुनीतः क्षुभ्नन्ति इत्यादौ णत्वशास्त्रस्न परेऽसत्त्व दीकारादौ कृते क्षुम्नेति रूपाभावात् निषेधो न प्राप्नोत नि चेन्मैवं स्वरादेशस्य स्थानिवद्भावादेकदेशविकृतस्यानत्यत्वाद्वा भविष्यतीति ॥ ९६ ॥ ।
पाठेधात्वादेर्णो नः ।२।३।९७|
पाठे धात्वादेर्णो नः स्यात् । नयति । पाठइति किम् । णकारीयति । आदेरिति किम् । रणति ॥९७॥
नयतीति 'णीं प्रापणे' । णकारीयतीति - णकार मिच्छतीति 'अमाव्ययात्क्यन्' । ३।४।२३। इति क्यन् । धातूनां णोपदेशस्तु 'णहिनुमीनाने ' इत्यस्य व्यवस्थार्थः । नन्वादिग्रहणं किमर्थमादिग्रहणाभावेपि णोपदेशबलान्नत्वं न भविष्यति अन्यथा भनित्येव कुर्यादिति चेन्मैवं नोपदेशस्य 'अदुरुपसर्गा०' | २|३|७७ | इति णत्वे फलमस्ति तथाहि उपसर्गपूर्वस्य प्रभणति