________________
(३०४)
सदोsपतेः परोक्षायां त्वादेः | २|३|४४
1
- प्रतिवर्जोपसर्गस्थानाम्यादेः परस्य सदः सो द्वित्वेप्यट्यपि ष् स्यात् । परोक्षायां तु द्वघुक्तौ सत्यामादेः पूर्वस्यैव । निषीदति । विधाषद्यते व्यषीदत् । परोक्षायां त्वादेरेव । निषसाद । अप्रतेरिति किम् । प्रतिसीदति ।४४|
उपसर्गादित्यनुवर्तते । व्यवादित्यस्य नुवृत्तौ प्रतिवर्जनानर्थक्यं । स्यात् । निषीदतीति-बदल विशरणादी, पदत् अवसादने इत्युभयोर्ग्रहणम् । श्रौतिकुंकु०' | ४|२| १०८ । इति सीदादेशः, स्थानिवद्भावात्सत्त्वम् । विषाषद्यत इतिगत वर्ष त ति गृ - लुप०' | ३ | ४ | १२ | इति यङ, द्वित्वम्' आगुणाव० ' |४| १।४८। इत्यात्त्वम् । व्यषीषददिति - णौ अद्यतन्या दौङ ह्रस्वे द्वित्वे 'असमान० ' | ४|१| ६३ | उनि पूर्वस्येत्वे 'लघोर्दीर्धोο' |४|१|६४ | इति दीर्घ वे च सिद्धम् । तुविशेषार्थः परोक्षायामेष विशेषोऽन्यत्र तूभयत्र पि भवति ॥ ४४ ॥
स्वजश्च | २|३|४५ ।
उपसर्गस्थान्नाम्यादेः परस्य स्वञ्जः सो द्वित्वेप्यट्यपि ष् स्यात् । परोक्षायां त्वादेरेव । अभिष्वजते । अभिषिष्वङ क्षते । प्रत्यध्वजत । परिषस्वजे ॥४५॥
अभिष्वजत इति - ' वञ्जित् सङ्ग' तुदादित्वाच्छ, 'शिदविद्' |४| ३।२० । इति ङिद्वद्भावात् 'नो व्यञ्जनस्या०' |४| २|४५ | इति नलोपेऽनेन त्वम् । अभिषिष्वङ क्षते इति - नन्वत्र 'णिस्तो ० ' | २|३|३७| इति नियमात् मूला सकारस्य षत्वं न प्राप्नोतीति चेत्सत्यं 'स्पद्ध' | ७|४|११९ । इति परत्वादिदमेव प्रवर्तते इति । परिषस्वज इति अत्र 'स्वजेर्न वा | ४ | ३ |२२| इति पक्षे परोक्षाया: किवद्भावान्नलोपः । योगविभागादप्रतेरिति नानुवर्तते, चकारः परोक्षायां त्वादेरित्यस्यानुकर्षणार्थ: ततश्च 'चानुकृष्टं नानुवर्तते' इति न्यायादुत्तरत्राननुवृत्तिः ॥४५॥