________________
( २९० )
यजूंषीत्यत्र - 'शि० | १|३|४० । इति नित्यत्वादन्तरङंगत्त्रात् च कृते षकारः । नकारस्याऽवश्यमनु-वारस्य भावात् अनुस्वारस्य च शिवेन शिट्ग्रहणेनैव सिद्ध मस्थानिकानुस्वारव्यावर्तनाय नकारोप दानम् तेन पुंसीत्यादौ न परवम् । दधिसेक्- अत्र वत्तेरन्ते वर्तमानस्य षभिन्न कार्यविधान एव वृत्त्य |१|१| २५ | सूत्रेण पदत्र षेधात् सेक् इत्यस्य पदत्वेन सकारो न पदमध्यगतः किन्तु पदादिस्थ एव । बिसमिति- 'उणादयं व्युत्पन्नानि नामानि इति अभ्युत्प नोऽयमतः सकारो न केनचित्कृतः ||१५||
समासेनेः स्तुतः | २|३|१६|
अग्नेः परस्य स्तुतः सस्य समासे वा स्यात् । अग्निष्टुत् |१६|
-
अग्नि स्तोतीति- अग्निष्टुत् । अत्र 'धः सो० |२| ३९८ सूत्रेण सकारः कृतः । षत्वे व तंव्ये उत्तरस्य पदत्वात् पूर्वसूत्रेणाप्राप्तौ सत्यां वचनम् ॥१६॥
ज्योतिरायुर्थ्यां च स्तोमस्य |२|३|१७|
•
'आभ्यामग्नेश्च परस्य स्तोमस्य सस्य समासे न स्यात् । ज्योतिषटोमः | आयुष्टोमः । अग्निष्टोमः । समासइत्येव । ज्योतिः स्तोमं
याति ॥१७॥
चशब्देनाग्निशब्दस्य समुच्चयः । ज्योतिषां स्तोमः = ज्योतिष्टोमः, एवमग्र | ज्योतिः स्तोमं याति- प्रदीपः समूहं प्रापयतीत्यर्थः । अकृतत्वात् पदादित्वाच्चाप्राप्ते विधीयते ॥१७॥
मातृपितुः स्वसुः | २|३|१८|
आभ्यां परस्य स्वसुः सस्य समासे ष स्यात् । मातृष्वसा । पितृ
·
BWS IS ES