________________
(२८३)
१
नादेकसमासे एवं भविष्यतीति 'उक्तार्थानामप्रयोगः' इति न्याय दैवयशब्दस्याप्रयोगः प्राप्नोतीति चेन्मैव स्पष्टार्थत्वात् द्विर्बद्ध सुबद्ध भवति' इति न्या याद वा । शिरसि पदम् सप्तमी शोण्डाद्यः | ३|११८८। सूत्रात् सप्तमीसमासे, . शिरसः पदमिति षष्ठीसमासे वा शिरस्पदम् । अधः पदम् इत्येव विग्रहे 'अव्ययं प्रवृद्धादिभिः | ३ | १|४८ | सूत्रात् नित्यं समासे प्राप्तेऽपि बाहुलकात् ससासाभावे अधः पदमित्यत्रापि समासे' इत्युपादानस्य फल ज्ञ ेयम् । परम च तत् शिरश्च परमशिरः । तस्मिन् तस्य वा पपम् - तत्पदम् । परमशिरश्च तत्पद चेति परमशिरः - पदमित्यत्र शिरः शब्दस्य समासद्वयसम्बन्धित्वादय इति वचनान्न भवति ॥४॥
अत कृक्रमिकं सकुम्भकुशाकर्णीपात्रेऽनव्ययस्य ।२।३।५।
आत्परस्यानव्ययस्य रस्य क्रादिस्थे कखपफि स् स्यात् । समासेक्ये । अयस्कृत, यशस्कामः, पयस्कंसः अयस्कुम्भः, अयस्कुशा, अयस्कर्णी, अयस्पात्रम्, अत इति किम् ? वा:- पात्रम् | अनव्ययस्येति किम् ? स्वःकार । समासंक्य इत्येव - उपयःकारः
१५।
अयः करोतीति क्विपि तागमे 'ङम्युक्त कृता' |३|२|७२ | इति समासे 'सो रू' | २|५|७२ । इति सस्य फै तस्यानेन' सकारे अयस्कृदिति । यशः कामयते स यशस्कामः 'कर्मणो ण्' | ५|१|७२ । इत्यण् । पयसः कस: पानभाजनम् पयस्कसः । कम्ङ कान्तो 'मावावद्य०' । उणा ५६४ । इति सः पुल्लिङ्गाश्रयेणैव दृश्यते इति स्त्रियां नोदाहार्यम् । अयसः कृम्भः - अयस्कुम्भः विकारविकारिभावसम्बन्धे षष्ठीसमासः 'भोर गोण० ' | २|४|३०| इति सूत्रोणायोविकारस्याविवक्षितत्वान्न ङीः किन्तु 'आत्' | २|४|१८ | इत्याप् । अयः प्रधानं यस्या सा अयः प्रधाना सा चासो कुशा चेति कर्मधारयः । 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति न्याये नाम ग्रहणे इत्युक्त या यत्र लिङगविशिष्टस्य ग्रहणं न तत्र नामग्रहणं भवती त । अत्र सूत्रे 'कृश' इत्यविकृतस्य
,