________________
(२६३)
कुशलो विद्यायां विद्याया वा । आयुक्तस्तपसि तपसो वा । आसेवावामिति किम् । कुशलनिश्चत्रे नतु करोति । आयुक्तो गीः शकटे, आकृष्य युक्त इत्यर्थः ।९७।
कुशलो निपुण: युजं पी ये गे' अङ पूर्वः आयुक्त स्म 'युजिच् समाधौ' आयुज्यते स्मेति कर्तरि क्त । आसेवायामित्यस्य पर्यायमाह तात्पर्ये इति- तत्परः आसक्तस्तस्य भावः तात्पर्य तत्परतेति यावत् आयुक्त: व्यापृतः इत्यर्थः । विद्याया इति- पक्षेऽधिकरणाविवक्षायां शेषषष्ठी। चित्रे इति'सप्तम्यधिकरणे' ।२।२।९५। इति नित्यमेव सप्तमी । पक्षे आधारस्याऽविवक्षायां विकल्पे सिद्धनासेवायामाधारा विवक्षानिवृत्त्यर्थं वचनम् ॥९७॥:
-
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूपसूतैः . २।२।९८॥ एभियुक्तात् सप्तमी वा स्यात् । गोषु गवां वा स्वामी । ईश्वरः। अधिपतिः । दायाद्रः । साक्षी । प्रतिभूः । प्रसूतो वा ।९८॥ - गवामिति-पक्षे शेषषष्ठी स्वामीत्यादि- 'स्वान्मिन्नीशे' ।।२। ४९। इति मिन् दीर्घत्व च । इष्टे स्थेशभास.' ।५।२।८१॥ इति वरे ईश्वरः । अधिरुढ: पतिमिति 'प्रात्यव०' ।३.११४७। इत समासे, अधिकश्चासौ पतिश्चेति वा समासे अधिपतिः । दायमादत्ते इति 'दश्चाङः ।। 1७८। इति डप्रत्यये, दायमत्तीत्यदेर्वाणि दायादः । प्रसत इति-प्रसूते स्मेति 'गत्यर्था०' ॥५॥१॥११॥ इति क्तः । स्वामीश्वराधिपतोति पर्यायोपादानात् पयार्यान्तरोगे षष्ठयेव भवति । ग्रामस्य राजा, ग्रामस्य पतिरिति । स्वाम्यादीनां गवादिसम्बन्धित्वमित्यस्त्येव षष्ठी, सप्तमी तु क्रियाप्रतीत्यभावात् नास्तीति सप्तमीप्रापणार्थ वचन ॥९८॥ .
-
व्याप्ये क्त-जः ।२।२।९९॥