________________
(१९६)
मावों प्रत्येकमन्तोपान्तो यस्य तस्मात् पञ्चमवर्जवर्गान्ताच्च नाम्नः परस्य मतोर्मो वः स्यात् । किंवान् । शमोवान् । वृक्षवान् । मालावान् । अहर्वान् । भास्वान् । मरुत्वान् १९४।
__ मकारावर्णयोरन्योपान्त्याभ्यां सह यथासङ्ख्यमन्वयस्तु 'नोादिभ्यः' ।२।१०९९। इति निषेधान्न भवति अन्यथा ऊमिमानित्यत्र मकारान्तः त्वाभावात् आदिपदग्राह्य यवमानित्यत्र अवर्णोपान्त्यत्वाभावाच्च प्राप्तेभावात्प्रतिषेधोऽनर्थक: स्यादिति । अथवा 'भोगवद गोरिमत' ।३२।६५॥ इतनदेशाद्वा । मतोर्म इति- अवयवाव विभावसम्बन्धे षष्ठी मतोरवयवस्य मकारस्येत्यर्थः । मः इत्यनुपादाने 'षष्ठयाऽन्त्यस्य' ७।४।१०६। इत्यत्यस्य तस्य स्यादथवा 'प्रत्ययस्य' ७।४।१०८। इति सर्वस्य स्यादिति । किवानिति-केऽस्य सन्तीति- 'तदस्यास्त्य०७।२।१॥ इति मतावनेन वत्वे 'तो मुमो०' ।१।३।१४। इत्यनुस्वारे। तत: सिलुकि 'ऋदुदितः' ।१।४।७। इति नागमे 'अभ्वादे०' ।२।१८३॥ इति दीर्घत्वे 'थदस्य' ।२।११८९। इत्यन्तलोपे च सिद्धम् । मकारान्तस्योदाहरणमिदम् । शमीवानिति- शम्यस्त्यस्मि. निति शमीवान् मकारोपान्त्यस्योबाहरणमिदम् । मालावानिदमाकारान्तस्योदाहरणम् । अहोऽत्रास्तीति-अहर्वान् ‘रो लुप्यरि'।२।११७५। इति रत्वं अकारोपान्त्यस्योदाहरणमिदम् । 'भास्वानिदमाकारोपान्त्यस्योदाहरणम् । मरुत्वानिदं पञ्चमवर्जवर्गान्तस्योदाहरणम् 'न स्तं मत्वर्थे' ।।१।२३॥ इति निषेधात् भास्वानित्यत्र रुत्वं मरुत्वानित्यत्र दत्वं च न भवतः ॥१४॥
मामिन ।२।१९५।
संज्ञायां मतोर्मों वः स्यात् । अहोवती मुनीवती नद्यौ ।९५।
नाम द्वधा लौकिकं शास्त्रीयं च निरुढलक्षणाकं यज्ञदत्तादि, यत् 'सञ्जा' इति प्रसिद्धम् । शास्त्रीयं 'अधातुविभक्ति०' ।१।१।२७। इति विहितं तत्र प्रत्यासत्या शास्त्रीयस्य ग्रहणे प्रसने नामाधिकारेणव नाम्नि लब्धे नामग्रहणमतिरिच्यमानं ज्ञापयति यदत्र लौकिकं नाम ग्राम्ह्ममत आह सम्मायामिति- गणिनीयास्तु नाम्नः प्रातिपदिकमिति संज्ञति ब्रुवन्ति ।