________________
(१८६।
रकरणे तु
तिवा शव नबन्धेन, निदिष्टं यग्दणेन च ।
एक स्वनिमित्तं च, पञ्चतानि न यङ लुपि ॥१८॥ इति न्यायाद् व्यतिदात्से इत्येव न त्वादेश्चतुर्थः । धाग इत्यत्र गकारोपादानातु दधे पाने इनिधयते: यङलुपि दातः दात्थ इति चतुर्थो न भवति एवं दवादेरप्यनुबन्धनिर्देशात् यङलुपि दात्त दात्थ इति चतुर्थो न भवति । भृशं पुन: . पुनर्वा धयति दधाति वा व्यञ्जनादे रेकस्वराद् भृशाऽभ क्ष्ण्ये यङ् वा ३-४७ इति यङि तल्लुक द्विस्त्रादौ 'आगुणा०' ।४।२।४८॥ इत्यात्त्वे तसि थसि 'श्नश्चातः ।४।२।९६॥ इत्याकारलापे च दात्त: दात्थः ।।७८॥
अधश्चतुर्थात् तथोधः ।२।१७९। . चतुर्थात्परयोर्धारूपवर्जाद्धातोविहितयोस्तथोध : स्यात् । अदुग्ध । अदुग्धाः । अलब्ध । अलब्धाः । अध इति किम् । धत्तः। धत्थः । विहिततिशेषणं किम् । ज्ञानभुत्त्वम् ।७९।
___ पूर्वसूत्रे निमित्तत्त्वेनोपादानादिह तथेत्यिस्य पुनरूपादानं स्थानित्वार्थम् । ननु 'गडदबादेः'० ।२।११७७। इति सूत्रात् 'चतुर्थान्तस्य' इत्यनुवृ. तेस्तस्य अर्थवशाद्विभक्ति०' '१३' इति न्यायेन पञ्चम्यन्तत्वेनपरिणामे सर्व सिध्यतीतिचेत्सत्यमिदं सुखार्थमन्यथा क्लिष्ट तिपत्ति: स्यात् । दुक् क्षरणे दुधात': अद्यतनीतप्रत्यये थासि च 'हशिटो.' ।३।४।५५॥ इति सकि 'दुहदिह०' ।४।३।७४। इति तस्य लुकि 'म्वादेर्दादेघः' ।२।११८३। इति घवेऽनेन धत्वे तृतीयस्तुतीय०१२।३।४९। इति तृतीयत्वे अदुग्ध अदुग्धाः। डुलभिष प्राप्तो ७८६ लभधातो: ते थासि च सिचो 'धुडह्रस्वाल्ल०' ।४।३।७०। इति लुचि अनेन प्रत्ययतथो: धत्वे तृतीयत्वे च अलब्ध अलब्धाः । अध इति वर्ज. नात् यङल बन्तवयतेरपि न भवति-दात्तः दात्थः । केचित्तु यङलुबन्तस्यापीच्छन्ति-दादः, दाखः । ज्ञानभुत्त्वमिति- बुधिच ज्ञाने ज्ञान बुध्यत इति ज्ञानभुत् तस्य भावः 'भावे स्वतल्' ।७।११५५॥ इति त्वे ज्ञानभुत्त्वमत्र नाम्नो विहितस्तवप्रत्ययः न तु धातो: 'क्विबन्ता धातू०' १०५ इति न्यायाश्रयणे. ऽपि 'अधः' इति वर्जनात्पर्यु दुमाच्छुद्धवाता रेव ग्रहणान्न भवति ॥७९॥