________________
(१७९)
कुरुच्छुरः |२| |६६ ।
कुरुच्छुरोर्नामिनो रे परे दोघों न स्यात् । कुर्यात् । टुर्यात् । कुव्वित्युकारः किम् । कुरत् शब्दे - कुर्यात् । ६६ ।
कुर्यादिति - डुकु गु करणे ८८८ इति धातोः सप्तमीयात्प्रत्ययः, 'कृग्तनादेरू:' | ३|४|८३| 'नामिनो०' | ४ | ३ |१| 'अतः शित्युत्' | ४१२८९ | इत्युकारः, कृगो यि च' | ४|२|८| इत्युकारलोप: (भ्वादे० ' | २|१|६३ | इति दीघत्वे प्राप्तेऽनेन निषेधः ॥ ६६ ॥
मो नो वोश्च |२| १६७
मन्तस्य धातोरन्तस्य पदान्तस्थस्य स्वोश्चपरयोनंः स्यात् । प्रज्ञान् । प्रशान्भ्याम् । जङ्गन्मि । जङ्गन्वः । ६७'
प्रशानिति ननु 'नाम्नो नोऽनह नः | २|१|११| इति नलोपः स्यादिति न च विधान सामर्थ्यान्न स्यादिति वाच्यं स्वयोः परयोविधानस्य चरितार्थत्वादिति चेत्सत्यं नकारस्यसत्त्वान्नलोपो न भवति । अत्र प्रशाम्यतीति क्विपि 'अह पञ्चमस्य० ' |४|१|१०५ ॥ इति दीर्घत्वम् । जड गन्मोतिकुटिलं गच्छामीति गत्यर्थात्कुटिले | ३|४|११| इति यङि द्वित्वे न्नादिव्यञ्जनलोपे 'गहोर्ज:' |४|१|४०| इति जकारे 'मुरतो ० ' |४| १ | ५१ ॥ इति स्वागमे 'तौ मुमो०' |१| ३ | १४ | इति वर्गान्त 'बहुलं लुप्' | ३ | ४ | १५ | इति यङो लुपि वर्तमान सिप्रत्ययेऽनेन नकारे च सिद्धम् ||६७ ||
-
संस्ध्वंस्क्वस्सनडुहो दः | २|१|६८
त्रध्वंसोः क्वस्प्रत्ययान्तस्य च सन्तस्य अनडुहश्च पदान्तस्थस्य दः स्यात् । उखास्रद् । पर्णध्वद् । विद्वत् कुलम् । स्वनडुद् । क्वसिति दिवसकारपाठादिह माभूत् विद्वान् ॥६८॥