________________
(१२९)
करणादेव ङोर्हस्वत्वं पुद्विकल्पश्च भविष्यति किमत्रोदनुबन्धपठनेनेति चेत् सत्यमत्रोदनुबन्धपठनमव्युत्पत्तिपक्षार्थम्, यथा “भातेर्डवतुः' उणा० ८८६ इत्यनुबन्धोऽस्त्येव तथापि पुन: सर्वादी उदनुबन्ध पठनमव्युत्पत्तिपक्षार्थ तथावस्त्रपि । प्रियपुमानिति-बहुत्वेन विग्रहः कार्योऽन्यथा पुमन डुन्नौ० ७१३६१७३। इति कच् स्यात् ।।७३॥ . .
ओत औः ।१४७४। ओतो धुटि परे औः स्यात् । गौः । गावो । द्यौः । चावी । प्रियद्यावो । ओत इति किम् ? चित्रगुः १७४।
चित्रगुः - अत्र परत्वात्पूर्व 'गोश्चान्ते० ।२।४।९६॥ इति इस्वत्वे पश्चादकाराभावादौन भवति, वर्णविधित्वाच्च स्थानिवद्भावो नास्ति । ननु हे चित्रगो ! इत्यत्र चित्रगुशब्दस्य सम्बोधने ओकारे सत्यपि उभयस्थाननिप्पन्नोऽन्यतरव्यपदेशभाग्' इति न्यायेन सेर्व्यपदेशे सति प्राप्नोति परं कथं न भवतीति चेत्सत्यं यदौकारव्यपदेशस्तदा सेरभावान्न भवति । यदा सेर्व्यपदेश: तदा लाक्षणिकत्वात् 'लक्षण प्रतिपदोक्तयो:० इति न्यायान भवति ।।७४॥
.
आ अम्शसोऽता १।४।७५। ओतोऽम्शसोरता सह आः स्यात् । गौः, गावो । द्यौः, द्यायो । प्रियद्यावी । औत इति किम् ? चित्रगुः ७५। । नन्वत्र 'अता' इति कथं ? एतस्मादृतेऽपि समानानां तेन.' : २२॥१॥ इति दोर्घत्वे कृते सर्व सेत्स तंति चेत्सत्यम् 'अता' इत्यस्याभावे पुल्लिङ्ग 'शसोऽता०' ।१।४।४९। इति स्त्रीलिङ्ग 'लुगातोऽनापः ।२।१।१०७। इत्यनयोः प्रवर्तनात् 'गान् ग: 'इत्यादयनिष्टं स्यात् । 'अता' इति कृते तु 'सन्नियोगशिष्टानामेकापाये.' इति सन्नियोगशिष्टत्वादेकस्याकारस्याभावे 'शसोऽता० ॥११४।४९। इति नकारो न भवति । एवं स्त्री लिङ्ग 'लुगातोऽनाप: