________________
(१२७)
विधिरिति निषेधः स्यात् ॥ ६९ ॥
ऋदुदितः | १|४|७०।
ऋदुदितो धुडन्तस्य घुटि परे घुटः प्राक् स्वरात्परो नोन्तः स्यात् । कुर्वन् । विद्वात् । गोमान् । धुटीत्येव - गोमता । ७०
'उदित: स्वरान्नन्तः । ४|४|९८ । इति सूत्र ेणैव धात्वधिकारादुदितो धातोर्मोन्तस्य सिद्धत्वात् 'उदितः' इति कथनम् अस्वादेः परिग्रहार्थम् तत्साहचर्यात् ऋदितोऽप अभ्वादेरेवेति सूत्रमिदं स्वादिव्युदासार्थं विज्ञयम् तेन सम्राट् इत्यादी न भवति । करोतीति विग्रहे 'शत्रानशा० | १|२| २० | इति शतरि 'कृग्तनादेः । १।४।८३। इत्युप्रत्यये 'नामिनो गुणो० | ४ | ३ | १ | इति गुणे 'अतः शित्युत् |४| २|८९ । इत्युत्वम्' इवर्णादेः | १ | २|२१| इति वत्वेऽनेन नागमे 'दो घंङ या ० | १|४| ४५ इति सिलौपे पदस्य | २|१|८९ | इति तल 'हदिर्हस्वरस्या' | १|३|३१| इति वस्य द्वित्वे च कुर्वन्निति । वेतीति 'वा वेत्तेः क्वसुः | ५|२| २२ | इति क्वसो "स्महतो:' | १|४|८६ । इति दीर्घत्वे च विद्वान् ॥ ७० ॥
युजोऽसमासे |१|४|७१।
युज म्पी योगे इत्यस्यासमासे धुङन्तस्य धुटः प्राक् नोन्तः स्यात् । | युङ । युञ्जौ । युञ्जि कुलानि । बहुयुङ । असमास इति किम् ? अश्वयुक् । बुज्न इति किम् ? सुजिञ्च समाधौ -युजमापन्ना मुनयः ॥७१॥
स्याद्याक्षिप्तस्य नाम्नो युज्ञ इति विशेषणात् तस्मिन्सति तदन्तविधेर्भावात् समासेऽपि प्राप्तिरिति असमासग्रहणम्, इदमेव ज्ञापत्रति अन प्रकरणे तदन्तविधिरस्तीति । युनक्तीति क्विपि, सिलोषेऽनेन नागमे 'पदस्थ ' | २|१|८९ | इति संयोगान्तलोपे 'युजञ्च चो० | २|१/७१ | इति ङकारे च