________________
(१११)
हस्वान्तादाबन्तात् स्त्रीद्वदन्ताच्च परस्यामो नाम् स्यात् । देवानाम्, मालानाम्, स्त्रीणाम्, वधूनाम् ॥३२॥
चकारेण 'स्त्रीदूतः' इत्यनुकृष्यते । चानुकृष्टत्वात् 'चानुकृष्टं नानुवर्तते' इति न्यायान्नोत्तरानुवर्तते । देवानाम् 'सन्निपातलक्षणो विधि' इति न्यायस्यानित्यत्वात् 'दीर्घो नाम्य०' | १|४ | ४७ । इति दीर्घ । ननु स्त्रीशब्दात् ङित्ययस्य स्त्रोत : ' | १|४|२९| इत्यामादेशे सत्यनेन सूत्रण नामादेशः कथं न भवतीति चेत्सत्यं 'निरनुबन्धग्रहणे न सानुबन्धस्य' इति न्यायान्न भवति । स्त्रीशब्दवजित योरियु वादेशसम्बन्धिनो: स्त्रीदूतोः पूर्वेण विकल्प एव ||३२||
4
संख्यानां ष्र्णाम् ||४|३३|
रणनान्तानाम् संख्याया चिनामामो नाम् स्यात् । चतुर्णाम् । षण्णाम् । पञ्चानाम् । अष्टानाम् |३३|
1
र् च ष् च न् च तेषां णाम् 'रष्वर्णान्नो० | २|३|६३ | इति त्वं भिन्नपदत्वात् 'वोत्तरपदान्त०' |२| ॥७५॥ इत्यपि न, षस्य पूर्वपदस्थत्वाभावात् मध्यमपदस्थत्वात् न च रस्य पूर्वपदस्थत्वात् णत्वं भविष्यतीति वाच्यं 'पदेऽन्तरेऽनाङ ० | २|३|९३ | इति निषेधातु, परन्तु तवर्गस्य ० ' | १|३|६० । इति णत्वम् । ननु सङ्ख्या एकत्वादिरर्थः णामिति च शब्दनिदेश: कथं तर्हि शब्दार्थयोः सामानाधिकरण्यं सङ्गच्छते इति चेत्सत्यमुपचारात्सङ्ख्याशब्देन सङख्यार्थाः शब्दा एव च्यन्ते । यद्वा सङ्ख्यायते आभिरिति 'करणाधारे' ||३|१२९| इति परमप्यनटं बाधित्वा 'उपसर्गादातः ' |५|३|११०। इत्यङि सङख्याशब्देन संख्यार्थाः शब्दा एवाच्यन्ते । षष्ठ्यास्तम्बन्धिविज्ञानात्प्रियचतुरां प्रियषषां प्रियपञ्चामित्यादो न भवति । चतुर्णाम् - 'हीद० | १|३|३१| इति णस्य द्वित्वम्, षण्णाम् 'माम सिद+ व्यञ्जने' | १|१|२१| इति पदत्वात् 'घुटस्तृतीयः' | २|१|७६ । इति षस्य डकार : 'पदान्तावर्गाद० | १|३|६३॥ इति प्रतिषेघाभावात् 'तवर्गस्य०' १६६०१ इति णत्वं डकारस्य 'प्रत्यये' | १| ३ |२| इति णत्वं च । पञ्चानाम् 'दीर्घो नाम्यति० १० | १|४|४७ | इति दीर्घः, 'नाम्नो नो नहतः | २|११९११ इति
-