________________
२८०
प्रमेयकमलमार्तण्ड परिशीलन गोसदृशो गवयः ॥७॥ गोविलक्षणो महिषः ॥ ८॥ इदमस्माद् दूरम् ॥ ९॥ वृक्षोऽयमित्यादि ॥ १०॥ उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः ॥ ११ ॥ इदमस्मिन् सत्येव भवति असति तु न भवत्येवेति ॥ १२॥ यथाग्नावेव धूमस्तदभावे न भवत्येवेति च ॥ १३॥ साधनात् साध्यविज्ञानमनुमानम् ॥ १४॥ साध्याविनाभावित्वेन निश्चितो हेतुः॥ १५ ॥ सहक्रमभावनियमोऽविनाभावः ॥ १६॥ सहचारिणोः व्याप्यव्यापकयोश्च सहभावः ॥ १७ ॥ पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः ॥ १८॥ तर्कात् तन्निर्णयः ॥ १९ ॥ इष्टमबाधितमसिद्धं साध्यम् ॥ २० ॥ सन्दिग्धविपर्य-स्ताव्युत्पन्नानां साध्यत्वं यथा स्यादित्यसिद्धपदम् ॥ २१॥ अनिष्टाध्यक्षादिबाधितयोः साध्यत्वं माभूदितीष्टाबाधितवचनम् ॥ २२ ॥ न चासिद्धवदिष्टं प्रतिवादिनः ॥ २३ ॥ प्रत्यायनाय हीच्छा वक्तुरेव ॥ २४॥ साध्यं धर्मः क्वचित्तद्विशिष्टो वा धर्मी ॥ २५ ॥ पक्ष इति यावत् ॥ २६ ॥ प्रसिद्धो धर्मी ॥ २७॥ विकल्पसिद्धे तस्मिन् सत्तेतरे साध्ये ॥ २८॥अस्ति-सर्वज्ञः नास्ति खरविषाणमिति ॥ २९ ॥ प्रमाणोभयसिद्धे तु साध्यधर्मविशि-ष्टता ॥ ३० ॥ अग्निमानयं देशः परिणामी शब्द इति यथा ॥ ३१ ॥ व्याप्तौ तु साध्यं धर्म एव ॥ ३२ ॥ अन्यथा तदघटनात् ॥ ३३ ॥ साध्यधर्माधारसन्देहापनोदाय गम्यमानस्यापि पक्षस्य वचनम् ॥३४॥ साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् ॥ ३५ ॥ को वा त्रिधा हेतुमुक्त्वा समर्थयमानो वा न पक्षयति ॥ ३६॥ एतद्द्वयमेवानुमानाङ्गं नोदाहर-णम् ॥ ३७॥ न हि तत् साध्यप्रतिपत्त्यङ्गं तत्र यथोक्तहेतोरेव व्यापारात् ॥ ३८ ॥ तदविनाभावनिश्चयार्थं वा विपक्षे बाधकादेव तत्सिद्धेः ॥ ३९॥ व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिः तत्रापि तद्विप्रतिपत्तावनवस्थानं स्यात् दृष्टान्तान्तरापेक्षणात् ॥ ४० ॥ नापि व्याप्तिस्मरणार्थं तथाविधहेतुप्रयोगादेव व्याप्तिस्मृतेः ॥ ४१ ॥ तत्परमभिधीयमानं साध्यधर्मिणि साध्यसाधने सन्देहयति ॥ ४२ ॥ कुतोऽन्यथोपनयनिगमने ॥४३॥ न च ते तदङ्गे साध्यधर्मिणि हे तुसाध्ययोर्वचनादेवासंशयात् ॥४४॥ समर्थनं वा वरं हेतुरूपमनुमानावयवो वाऽस्तु साध्ये तदुपयोगात् ॥ ४५ ॥ बालव्युत्पत्यर्थं तत्त्रयोपगमे शास्त्र एवासौ न वादेऽनुपयोगात् ॥ ४६॥ दृष्टान्तो द्वेधा अन्वयव्यतिरेकभेदात् ॥ ४७ ।। साध्यव्याप्तं साधन यत्र प्रदर्श्यते सोऽन्वय-दृष्टान्तः ॥४८॥ साध्याभावे साधनव्यतिरेको यत्र कथ्यते स व्यतिरेक-दृष्टान्तः ॥ ४९ ॥ हेतोरुपसंहार