________________
[७७६ ] प्राकृतव्याकरणम्
.. क्रपोवहो णिः । ८।४ । १५१ ।
क्रपेः अवह इत्यादेशो ण्यन्तो भवति । अवहावेइ। कृपां करोतीत्यर्थः ॥ १५१ ॥ प्रदीपेस्तेअव--सन्दुम--सन्धुकाब्भुत्ताः 1८१४१५२।।
प्रदीप्यतेरेते चत्वार आदेशा वा भवन्ति ॥ तेअवइ । सन्दुमइ । सन्धुक्कइ । अब्भुत्तइ । पलीवइ ॥ १५२ ॥
लुमेः संभावः । ८ । ४ । १५३ । लुभ्यतेः संभाव इत्यादेशो वा भवति ॥ संभावइ । लुब्भइ ॥ १५३ ॥
क्षुमे खउरपड्डुहौ। ८ । ४ । १५४ । क्षुभेः खउर पड्डुह इत्यादेशौ वा भवतः ॥ खउरइ । पड्डहइ । खुडभइ ।। १५४ ॥
आङो रमे रम्भ-ढवौ।।४।१५५। । आङः परस्य रमे रम्भ ढव इत्यादेशौ वा भवतः॥ आरम्भइ । आढवइ । आरभइ ।। १५५ ॥ उपालम्भेझङ्क-पच्चार-वेलवाः। ८।४।१५६।।
उपालम्भेरेते त्रय आदेशा वा भवन्ति ॥ झङ्खइ । प. चारइ । वेलवइ । उवालम्भइ ॥ १५६ ।।
अवेर्जुम्भो जम्मा । ८ । ४ । १५७ । जम्भेम्भा इत्यादेशो भवति वेस्तु न भवति ॥ जम्भाइ । जम्भाअइ ॥ अवेरिति किम् । केलि-पसरो विअम्भइ ॥ १९७॥