________________
[७७४] प्राकृतव्याकरणम् तनेस्तड-तड्ड-तड्रडव-विरल्लाः । ८ । ४ । १३७ ।
तनेरेते चत्वार आदेशा वा भवन्ति ॥ तडइ । ताइ । तडवइ । विरल्लइ । तणइ ॥ १३७ ।।
तृपस्थिप्पः । ८।४ । १३८ । तृप्यतेस्थिप्प इत्यादेशो भवति ॥ थिप्पइ ॥ १३८ ॥
उपसरल्लिअः। ८ । ४ । १३९ । उपपूर्वस्य सुपेः कृतगुणस्य अल्लिअ इत्यादेशो वा भवति ॥ अल्लिअइ । उवसप्पइ । १३९ ॥
संतेपेङ्खः । ८ । ४.। १४०। संतपेझख इत्यादेशो वा भवति ।। झलइ । पक्षे। संतप्पइ ॥ १४०॥
व्यापेरोअग्गः । ८।४ । १४१ । ब्यामोतेरोअग्ग इत्यादेशो वा भवति ॥ ओअग्गइ । वावेइ ॥ १४१ ॥ ... समापेः समाणः । ८ । ४ । १४२ ।
समामोतेः समाण इत्यादेशो वा भवति ॥ समाजइ। समावेइ ॥ १४२॥ क्षिपेर्गलत्थाड्डक्ख-सोल्ल-पेल्ल-गोल्ल-छुह-हुल-परी-घत्ताः
।८।४ । १४३ । क्षिपेरेते नवादेशा वा भवन्ति ॥ गलत्थइ । अडक्खइ। सोल्लइ । पेल्लइ । णोल्लइ। हृस्वत्वे तुणुल्लइ ।छुहइ। हुलइ। परीइ । घत्तइ । खिवइ ॥ १४३॥