________________
[७७०]
प्राकृतव्याकरणम्
युजो जुञ्ज-जुज्ज-जुप्पाः । ८ । ४ १०९ ।
युजो जुञ्ज जुन जुप्प इत्यादेशा भवन्ति ॥ जुञ्जइ । जुज्जइ । जुप्पइ ॥ १०९ ॥ भुजो भुञ्ज-जिम-जेम-कम्माण्ह-समाण-चमढ
चड्डाः । ८।४ । ११०। भुज एतेऽष्टादेशा भवन्ति ॥ भुञ्जइ । जिमइ । जेमइ । कम्मेइ । अण्हइ । समाणइ । चमढइ । चड्डुइ ॥ ११० ।।
वोपेन कम्मवः । ८।४ । १११ ।। उपेन युक्तस्य भुजेः कम्मव इत्यादेशो वा भवति ॥ कम्मवइ । उवहुअइ ॥ १११ ॥
घटेगढः । ८ । ४ । ११२। घटतेर्गढ इत्यादेशो वा भवति । गढइ घडइ॥११२॥
समो गल।८।४। १.१३ । सम्पूर्वस्य घटतेर्गल इत्यादेशो वा भवति ॥ संगलइ। सघडइ ॥ ११३॥
हासेन स्फुटेर्मुरः । ८ । ४ । ११४ । हासेन करणेन यः स्फुटिस्तस्य मुरादेशो वा भवति॥ मुरइ । हासेन स्फुटति ॥ ११४ ॥ मण्डेश्चिञ्च चिञ्चअ-चिञ्चिल्ल-डि-टिविडिकाः
।८।४ । ११५। मण्डेरेते पश्चादेशा वा भवन्ति ॥ चिश्चइ । चिश्चअइ। चिञ्चिल्लइ । रीडइ । टिविडिक्कइ । मण्डइ ॥ ११५॥