________________
[७६८] प्राकृतव्याकरणम् समारचेरुवहत्य-सारख-समार-केलायाः ।।४।९५ ।
समारचेरेते चत्वार आदेशा वा भवन्ति ।। उवहत्थइ । सारवइ । समारइ । केलायइ । समारयइ ॥ ९५ ॥
. सिचेः सिञ्च-सिम्पौ। ८ । ४ । ९६ ।
सिञ्चतेरेतावादेशौ वा भवतः ॥ सिञ्चइ । सिम्पइ । सेअइ ॥ ९६ ॥
प्रच्छः पुच्छः । ८ । ४ । ९७ । । पृच्छेः पुच्छादेशो भवति ॥ पुच्छइ ।। ९७ ॥
गर्जेबुकः । ८.४ । ९८ । गर्जतेर्बुक्क इत्यादेशो वा भवति ॥ बुक्कइ । गज्जइ ॥९८॥
वृषे ठिकः । ८।४ । ९९ । वृषकर्तृकस्य गर्जेटिक्क इत्यादेशो वा भवति ॥ ढिक्का। वृषभो गर्जति ॥ ९९ ॥ राजेरग्घ-छज्ज-सह-रीर-रेहाः । ८ । ४ । १००।
राजेरेते पश्चादेशा वा भवन्ति ॥ अग्घह । छज्जइ । सहइ । रीरइ । रेहइ । रायइ ॥१०० ॥ मस्जेराउड्ड-णिउड्ड-बुड्ड-खुप्पाः । ८।४ । १०१ ।
मञ्जतेरेते चत्वार आदेशा वा भवन्ति ॥ आउडुइ। णि उड्इ । बुड्डइ । खुप्पइ । मज्जइ ॥ १०१॥
पुञ्जरारोल-चमालौ। ८।४। १०२। . - पु रेतावादेशौ वा भवतः॥ आरोलइ। वमालइ । पुञ्जइ ॥ १०२ ॥