SearchBrowseAboutContactDonate
Page Preview
Page 933
Loading...
Download File
Download File
Page Text
________________ [७२८] प्राकृतव्याकरणम् णाए । तयेत्यर्थः ॥ णेहिं कयं । तैः कृतमित्यर्थः ॥ णाहिं कथं । ताभिः कृतमित्यर्थः ॥ ७० ॥ किमः क-तसोच । ८ । ३ । ७१ । किम को भवति स्यादौ त्रतसोश्च परयोः ॥ को। के। कं । के । केण ॥ त्र कत्थ ॥ तस् । कओ । कत्तो । कदो । ॥ ७१ ॥ इदम इमः । । ३ । ७२ । इदमः स्यादौ परे इम आदेशो भवति ॥ इमो । इमे । इमं । इमे । इमेण ॥ स्त्रियामपि । इमा ॥ ७२ ॥ पुं- स्त्रियाने वायमिमिआ सौ । ८ । ३ । ७३ । इदमशब्दस्य सौ परे अयमिति पुल्लिङ्गे इमिआ इति स्त्रीलिङ्गे आदेशौ वा भवतः ॥ अहवायं कय-कज्जो । हमिआ वाणिअ-धूआ । पक्षे । इमो । इमा ॥ ७३ ॥ स्सि स्सयोरत् । ८ । ३ । ७४ । इदमः स्सि स्स इत्येतयोः परयोरद् भवति वा ॥ अस्सि । अस्स | पक्षे । इमादेशोपि । इमस्सि । इमस्स ॥ बहुलाधिकारादन्यत्रापि भवति । एहि । एसु । आहि । एभिः एषु आभिरित्यर्थः ॥ ७४ ॥ डेर्मेन हः । ८ । ३ । ७५ । इदमः कृतेमादेशात परस्य डे: स्थाने मेन सह ह आदेशो वा भवति ।। इह | पक्षे । इमस्सिं । इमम्मि ॥७५॥ न त्थः । ८ । ३ । ७६ । इदमः परस्य 'डे: स्सिं - म्मि-स्थाः ' ( ३-५९ ) इति प्राप्तः स्थो न भवति ॥ इह । इमस्सिं । इमम्मि ॥ ७६ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy