SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ ..[७२६] प्राकृतव्याकरणम् स्त्रियामपि । सर्वासाम् । सव्वेसिं ॥ एवम् अन्नेसिं । तेसिं ॥६१॥ कितदुभ्यां डासः। ८।३ । ६२ । किंतड्यांपरस्यामः स्थाने डास इत्यादेशो वा भवति॥ कास । तास । पक्षे । केसिं । तेसिं ॥ ६२ ॥ किंयत्तभ्यो डसः । ८।३। ६३। । एभ्यः परस्य सः स्थाने डास इत्यादेशो वा भवति। 'ङसः स्सः' (३-१०) इत्यस्यापवादः। पक्षे सोपि भवति ॥ कास । कस्स । जास । जस्स । तास । तस्स ।। बहुलाधिकारात् किंतद्भयामाकारान्ताभ्यामपि डासादेशो वा। कस्या धनम् । कास धण ॥ तस्याधनम् । तास घणं। पक्षे । काए । ताए ॥ ६३ ॥ ईदभ्यः स्सा से । ८।३। ६४।... किमादिभ्य ईदन्तेभ्यः परस्य उसः स्थाने स्सा से इत्यादेशौ वा भवतः। 'टा-स्-डेरदादिदेवा तु उसेः' (८-३-२९) इत्यस्यापवादः। पक्षे अदादयोऽपि ।। कि. स्सा । कीसे । की। कीआ । कीइ । कीए ॥ जिस्सा। जीसे । जीअ । जीआ। जीइ । जीए ॥ तिस्सा । तीसे । तीअ तीआ। तीइ तीए ॥ ६४ ॥ डेड हे डाला इआ काले । ८।३ । ६५। किंयत्तद्भ्यः कालेऽभिधेये स्थाने आहे आला इति डितो इआ इति च आदेशा वा भवन्ति । हिंसिम्मि. स्थानामपवादः । पक्षे तेऽपि भवन्ति ॥ काहे । काला ।कइआ। जाहे । जाला । जहआ ॥ ताहे । ताला । तइआ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy