________________
[७२०]
प्राकृतव्याकरणम् इह त्वप्राप्ते हे गोअमा हे गोअम । हे कासवा हे कासव । रेरे चप्फलया। रे रे निग्घिणया ॥ ३८ ॥
ऋतोदा । ८ । ३ । ३९ । ऋकारान्तस्यामन्त्रणे सौ परे अकारोन्तादेशो वा भवति ॥ हे पितः । हे पिअ॥ हे दातः । हे दाय । पक्षे । हे पिअर । हे दायार ॥ ३९॥
नाम्न्यरं वा । ८ । ३ । ४० । ऋदन्तस्यामन्त्रणे सौ परे नाम्नि संज्ञायां विषये अरं इति अन्तादेशो वा भवति ।। हे पितः । हे पिअरं । पक्षे । हे पिअ॥ नाम्नीति किम् । हे कर्तः । हे कर्तार ।। ४० ॥ :
वाप ए । ८।३ । ४१.। . आमन्त्रणे सो परे आप एत्वं व भवति ।। हे माले। हे महिले। अज्जिए । पन्जिए । पक्षे । हेमाला । इत्यादि। आप इति किम् । हे पिउच्छा । हे माउच्छा ॥ बहुलाधिकारात् कचिदोत्वमपि । अम्मो भणामि भणिए ॥४१॥
ईदतोईस्वः। ८ । ३ । ४२ ॥ आमन्त्रणे सौ परे ईदूदन्तयोर्हस्वो भवति ॥ हे नह। हे गामाणि । हे समणि । हे वहु । हे खलपु ॥ ४२ ॥
- क्विपः।८।३। ४३ । . विवन्तस्येदूदन्तस्य हृस्वो भवति ॥ गामणिणा । स्व. लपुणा । गामणिणो । खलपुणो ॥४३॥
- ऋतामुदस्यमौसु वा । ८।३ । ४४। .
सिअम्औवर्जिते अर्थात् स्यादौ परे ऋदन्तानामुदन्तादेशो वा भवति ॥ जस् । भत्तू । भत्तुणो । भत्तउ ।