________________
[७१८] प्राकृतव्याकरणम् टादीनामिति किम् । मुद्धा । बुद्धी । सही । घेणू । वह ॥२९॥
नात आत् । ८ ।३।३०। स्त्रियां वर्तमानादादन्तानाम्नः परेषां टाङडिङसी. नामादादेशो न भवति॥ मालाअ मालाइ । मालाएं कयं सुहं ठिअं आगओ वा ॥ ३० ॥
प्रत्यये डीन वा । ८।३ । ३.१ ।
अणादिसूत्रेण (हे० २-४-२०) प्रत्ययनिमित्तो यो डीरुक्तः स स्त्रियां वर्तमानानाम्नो वा भवति ॥ साहणी। कुरुचरी। पक्षे । आत् (हे० २-४-१८) इत्याप् । साहणा। कुरुचरा ॥ ३१ ॥ .
अजातेः पुंसः। ८।३।३२ . अजातिवाचिनः पुल्लिङ्गात् स्त्रियां वर्तमानात् डीर्वा भवति ।। नीली नीला । काली काला । हसमाणीहसमाणा। सुप्पणही सुप्पणहा । इमीए इमाए । इमीणं इमाणं । एईए एआए । एईणं एआणं॥अजातेरिति किम् । करिणी। अया। एलया । अप्राप्ते विभाषेयम् । तेन गोरी कुमारी इत्यादौ संस्कृतवन्नित्यमेव डीः ॥ ३२ ॥ . किं-यत्तदोस्यमामि । ८ । ३ । ३३ ।
सिअम्आम्वर्जिते स्यादौ परे एभ्यः स्त्रियां मेर्वा भवति ॥ कीओ। काओ । कीए । काए। कीसु। कासु । एवं । जीओ। जाओ । तीओ । ताओ । इत्यादि ॥ अस्य. मामीति किम् । का । जा। सा । कं । जं । तं । काण-। जाण । ताण ॥ ३३॥