________________
स्वोपनवृत्तिसहितम् [७०९] . उअ पश्य । ८।२ । २११। . उअ इति पश्येत्यस्यार्थे प्रयोक्तव्यं वा ॥ .
उअ निचलनिप्फंदा भिसिणीपत्तमि रेहइ बलाया। निम्मल-मरगय-भायण परिट्ठिआ संख-सुत्ति व्व । पक्षे पुलआदयः॥ २११ ॥
इहरा इतरथा । ८ । २ । २१२ । इहरा इति इतरथार्थे प्रयोक्तव्यं वा ॥ इहरा नीसामन्नेहिं । पक्षे । इअरहा ।। २१२ ॥
एकसरि झगिति संप्रति ।८।२।२१३।
एकसरि झगित्यर्थे संप्रत्यर्थे च प्रयोक्तव्यम् ॥ एकसरिकं । झगिति सांप्रतं वा ॥२१३ ॥
मोरउल्ला मुधा । ८ । २।२१४ ।
मोरउल्ला इति मुधार्थे प्रयोक्तव्यम् ॥ मोरउल्ला। मुधेत्यर्थः ॥ २१४ ॥ . दरार्धाल्पे । ८ । २ । २१५।।
दर इत्यव्ययमर्धार्थे ईषदर्थे च प्रयोक्तव्यम् ॥ दर-वि. असि । अर्धेनेषद्वा विकसितमित्यर्थः ।। २१५ ॥
किणो प्रश्ने । ८ । २ । २१६ । किणो इति प्रश्ने प्रयोक्तव्यम्॥ किणो धुवसि ॥२१६॥
इ-जे-राः पाद-पूरणे । ८ । २ । २१७ । इ जे र इत्येते पादपूरणे प्रयोक्तव्याः ॥ नउणा इ अच्छीई । अणुकूलं वोत्तुं जे । गेण्हइ र कलम-गोवी ॥