________________
[७०२] हैमशब्दानुशासनस्य विद्धस-बावस्पति-विष्टरश्रवसू-प्रचेतस-प्रोक्त-प्रोता. दीनां किवादिप्रत्ययान्तानांच अग्निचित्सोमसुत्सुग्लसुम्लेत्यादीनां पूर्वैः कविभिरप्रयुक्तानांप्रतीतिवैषम्यपरःप्रयोगो न कर्तव्यः शब्दान्तरैरेव तु तदर्थोभिधेयः। यथा कृष्टः कुशलः । वाचस्पतिर्गुरुः। विष्टरश्रवा हरिरित्यादि घृष्टः शब्दस्य तु सोपसर्गस्य प्रयोग इष्यत एव । मन्दर-यडपरिघटुं । तहिअस-निहट्ठाणङ्ग इत्यादि । आर्षे तु यथादर्शनं सर्वमविरुद्धम् । यथा । घट्ठा। महा। विउसा । सुअ-लक्खणाणुसारेण । वक्वन्तरेसु अ पुणो इत्यादि ॥ १७४ ॥
अव्ययम् । ८।२ । १७५। अधिकारोऽयम् । इतः परं ये वक्ष्यन्ते आपादसमाप्तेस्तेऽव्ययसंज्ञा ज्ञातव्याः ॥ १७५ ॥
तं वाक्योपन्यासे । ८।२ । १७६ । तमिति वाक्योपन्यासे प्रयोक्तव्यम् ॥ तं तिअसपन्दि-मोक्खं ॥ १७६ ॥
आम अभ्युपगमे । ८।२। १७७ । आमेत्यभ्युपगमे प्रयोक्तव्यम् ॥ आम बहला वणोली ॥ १७७॥
णवि वैपरीत्ये । ८।२। १७८ । णवीति वैपरीत्ये प्रयोक्तव्यम्॥णवि हा वणे॥१७८॥
पुणरत्तं कृतकरणे।८।२।१७९ । पुणरूत्तमिति कृतकरणे प्रयोक्तव्यम् ॥ अहसुप्पइपंसुलिणीसहेहि अङ्गेहि पुर्णरुतं ॥१७९।।